01.204
Pancharatra: Sunda and Upasunda kill each other. Pandavas establish rule to spending time with Draupadi.
नारद उवाच॥
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ । कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ॥१-२०४-१॥
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् । आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ॥१-२०४-२॥
यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन । निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ॥१-२०४-३॥
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः । पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ॥१-२०४-४॥
अन्तःपुरे वनोद्याने पर्वतोपवनेषु च । यथेप्सितेषु देशेषु विजह्रातेऽमराविव ॥१-२०४-५॥
ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले । पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः ॥१-२०४-६॥
दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ । वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः ॥१-२०४-७॥
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः । गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे ॥१-२०४-८॥
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती । वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा ॥१-२०४-९॥
नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती । शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ॥१-२०४-१०॥
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ । दृष्ट्वैव तां वरारोहां व्यथितौ सम्बभूवतुः ॥१-२०४-११॥
तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता । उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ॥१-२०४-१२॥
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना । उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् ॥१-२०४-१३॥
वरप्रदानमत्तौ तावौरसेन बलेन च । धनरत्नमदाभ्यां च सुरापानमदेन च ॥१-२०४-१४॥
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ । मदकामसमाविष्टौ परस्परमथोचतुः ॥१-२०४-१५॥
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत । मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ॥१-२०४-१६॥
नैषा तव ममैषेति तत्र तौ मन्युराविशत् । तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् ॥१-२०४-१७॥
तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ । अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ॥१-२०४-१८॥
तौ गदाभिहतौ भीमौ पेततुर्धरणीतले । रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ॥१-२०४-१९॥
ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा । पातालमगमत्सर्वो विषादभयकम्पितः ॥१-२०४-२०॥
ततः पितामहस्तत्र सह देवैर्महर्षिभिः । आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् ॥१-२०४-२१॥
वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह । वरयामास तत्रैनां प्रीतः प्राह पितामहः ॥१-२०४-२२॥
आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि । तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ॥१-२०४-२३॥
एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः । इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ॥१-२०४-२४॥
एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ । तिलोत्तमार्थे सङ्क्रुद्धावन्योन्यमभिजघ्नतुः ॥१-२०४-२५॥
तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् । यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ॥ तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ॥१-२०४-२६॥
वैशम्पायन उवाच॥
एवमुक्ता महात्मानो नारदेन महर्षिणा । समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः ॥ समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ॥१-२०४-२७॥
द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् । स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ॥१-२०४-२८॥
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः । नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ॥१-२०४-२९॥
एवं तैः समयः पूर्वं कृतो नरदचोदितैः । न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत ॥१-२०४-३०॥