Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.215
Pancharatra: Agni seeks Arjuna and Krishna's help to burn Kandava forest.
वैशम्पायन उवाच॥
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम्। लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ॥१-२१५-१॥
ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा। भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम् ॥१-२१५-२॥
एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ। केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ॥१-२१५-३॥
एवमुक्तः स भगवानब्रवीत्तावुभौ ततः। भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ॥१-२१५-४॥
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम्। यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् ॥१-२१५-५॥
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति। तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ॥१-२१५-६॥
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा। सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ॥१-२१५-७॥
तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः। तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ॥१-२१५-८॥
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति। ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ॥१-२१५-९॥
स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः। दहेयं खाण्डवं दावमेतदन्नं वृतं मया ॥१-२१५-१०॥
युवां ह्युदकधारास्ता भूतानि च समन्ततः। उत्तमास्त्रविदो सम्यक्सर्वतो वारयिष्यथः ॥१-२१५-११॥
एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम्। दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ॥१-२१५-१२॥
उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च। यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ॥१-२१५-१३॥
धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम्। कुर्वतः समरे यत्नं वेगं यद्विषहेत मे ॥१-२१५-१४॥
शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः। न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ॥१-२१५-१५॥
अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः। रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ॥१-२१५-१६॥
तथा कृष्णस्य वीर्येण नायुधं विद्यते समम्। येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ॥१-२१५-१७॥
उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि। निवारयेयं येनेन्द्रं वर्षमाणं महावने ॥१-२१५-१८॥
पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक। करणानि समर्थानि भगवन्दातुमर्हसि ॥१-२१५-१९॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.