01.214
Core-Pancharatra: Arjuna and Krishna sport on the banks of river Yamuna.
वैशम्पायन उवाच॥
इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान्। शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ॥१-२१४-१॥
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम्। पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ॥१-२१४-२॥
स समं धर्मकामार्थान्सिषेवे भरतर्षभः। त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् ॥१-२१४-३॥
तेषां समविभक्तानां क्षितौ देहवतामिव। बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ॥१-२१४-४॥
अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः। रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् ॥१-२१४-५॥
अधिष्ठानवती लक्ष्मीः परायणवती मतिः। बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता ॥१-२१४-६॥
भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ। प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ॥१-२१४-७॥
तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे। बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ॥१-२१४-८॥
धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले। प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ॥१-२१४-९॥
न तु केवलदैवेन प्रजा भावेन रेमिरे। यद्बभूव मनःकान्तं कर्मणा स चकार तत् ॥१-२१४-१०॥
न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम्। भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ॥१-२१४-११॥
स हि सर्वस्य लोकस्य हितमात्मन एव च। चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ॥१-२१४-१२॥
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः। अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा ॥१-२१४-१३॥
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत्। उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ॥१-२१४-१४॥
सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन। सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन ॥१-२१४-१५॥
वासुदेव उवाच॥
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले। सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ॥१-२१४-१६॥
वैशम्पायन उवाच॥
आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत। जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ॥१-२१४-१७॥
विहारदेशं सम्प्राप्य नानाद्रुमवदुत्तमम्। गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम् ॥१-२१४-१८॥
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः। माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः ॥१-२१४-१९॥
आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः। यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ॥१-२१४-२०॥
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः। यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः ॥१-२१४-२१॥
द्रौपदी च सुभद्रा च वासांस्याभरणानि च। प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ॥१-२१४-२२॥
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः। जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् ॥१-२१४-२३॥
रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम्। मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ॥१-२१४-२४॥
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः। शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् ॥१-२१४-२५॥
तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ। समीपे जग्मतुः कञ्चिदुद्देशं सुमनोहरम् ॥१-२१४-२६॥
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ। महार्हासनयो राजंस्ततस्तौ संनिषीदतुः ॥१-२१४-२७॥
तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च। बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ॥१-२१४-२८॥
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव। अभ्यगच्छत्तदा विप्रो वासुदेवधनञ्जयौ ॥१-२१४-२९॥
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः। हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः ॥१-२१४-३०॥
तरुणादित्यसङ्काशः कृष्णवासा जटाधरः। पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥१-२१४-३१॥
उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम्। अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ॥१-२१४-३२॥