Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.003
Pancharatra: Maya built a magnificent Palace and gave it to Pandavas.
वैशम्पायन उवाच॥
अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम्। आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम् ॥२-३-१॥
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति। यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया ॥ कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति ॥२-३-२॥
सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः। आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत ॥२-३-३॥
ततः सभां करिष्यामि पाण्डवाय यशस्विने। मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् ॥२-३-४॥
अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह। निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् ॥ सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा ॥२-३-५॥
सा वै शतसहस्रस्य संमिता सर्वघातिनी। अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ॥२-३-६॥
वारुणश्च महाशङ्खो देवदत्तः सुघोषवान्। सर्वमेतत्प्रदास्यामि भवते नात्र संशयः ॥ इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम् ॥२-३-७॥
उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति। हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः ॥२-३-८॥
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः। दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ॥२-३-९॥
यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना। आहृताः क्रतवो मुख्याः शतं भरतसत्तम ॥२-३-१०॥
यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः। शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः ॥२-३-११॥
यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः। यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः ॥ उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः ॥२-३-१२॥
नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः। उपासते यत्र सत्रं सहस्रयुगपर्यये ॥२-३-१३॥
यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः। श्रद्दधानेन सततं शिष्टसम्प्रतिपत्तये ॥२-३-१४॥
सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः। ददौ यत्र सहस्राणि प्रयुतानि च केशवः ॥२-३-१५॥
तत्र गत्वा स जग्राह गदां शङ्खं च भारत। स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः ॥ किङ्करैः सह रक्षोभिरगृह्णात्सर्वमेव तत् ॥२-३-१६॥
तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम्। विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् ॥२-३-१७॥
गदां च भीमसेनाय प्रवरां प्रददौ तदा। देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम् ॥२-३-१८॥
सभा तु सा महाराज शातकुम्भमयद्रुमा। दश किष्कुसहस्राणि समन्तादायताभवत् ॥२-३-१९॥
यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा। भ्राजमाना तथा दिव्या बभार परमं वपुः ॥२-३-२०॥
प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम्। प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ॥२-३-२१॥
नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता। आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा ॥२-३-२२॥
उत्तमद्रव्यसम्पन्ना मणिप्राकारमालिनी। बहुरत्ना बहुधना सुकृता विश्वकर्मणा ॥२-३-२३॥
न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी। आसीद्रूपेण सम्पन्ना यां चक्रेऽप्रतिमां मयः ॥२-३-२४॥
तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च। सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः ॥२-३-२५॥
अन्तरिक्षचरा घोरा महाकाया महाबलाः। रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ॥२-३-२६॥
तस्यां सभायां नलिनीं चकाराप्रतिमां मयः। वैडूर्यपत्रविततां मणिनालमयाम्बुजाम् ॥२-३-२७॥
पद्मसौगन्धिकवतीं नानाद्विजगणायुताम्। पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम् ॥२-३-२८॥
सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम्। मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम् ॥२-३-२९॥
मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः। दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ॥२-३-३०॥
तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः। आसन्नानाविधा नीलाः शीतच्छाया मनोरमाः ॥२-३-३१॥
काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः। हंसकारण्डवयुताश्चक्रवाकोपशोभिताः ॥२-३-३२॥
जलजानां च माल्यानां स्थलजानां च सर्वशः। मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ॥२-३-३३॥
ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः। निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत् ॥२-३-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.