Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.018
Pancharatra: Under the leadership of Krishna Bhima and Arjuna reach the capital of Magadha.
वासुदेव उवाच॥
पतितौ हंसडिभकौ कंसामात्यौ निपातितौ। जरासन्धस्य निधने कालोऽयं समुपागतः ॥२-१८-१॥
न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः। प्राणयुद्धेन जेतव्यः स इत्युपलभामहे ॥२-१८-२॥
मयि नीतिर्बलं भीमे रक्षिता चावयोर्जुनः। साधयिष्याम तं राजन्वयं त्रय इवाग्नयः ॥२-१८-३॥
त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः। न संदेहो यथा युद्धमेकेनाभ्युपयास्यति ॥२-१८-४॥
अवमानाच्च लोकस्य व्यायतत्वाच्च धर्षितः। भीमसेनेन युद्धाय ध्रुवमभ्युपयास्यति ॥२-१८-५॥
अलं तस्य महाबाहुर्भीमसेनो महाबलः। लोकस्य समुदीर्णस्य निधनायान्तको यथा ॥२-१८-६॥
यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि। भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे ॥२-१८-७॥
वैशम्पायन उवाच॥
एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः। भीमपार्थौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ ॥२-१८-८॥
अच्युताच्युत मा मैवं व्याहरामित्रकर्षण। पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् ॥२-१८-९॥
यथा वदसि गोविन्द सर्वं तदुपपद्यते। न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी ॥२-१८-१०॥
निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः। राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः ॥२-१८-११॥
क्षिप्रकारिन्यथा त्वेतत्कार्यं समुपपद्यते। मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम ॥२-१८-१२॥
त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे। धर्मकामार्थरहितो रोगार्त इव दुर्गतः ॥२-१८-१३॥
न शौरिणा विना पार्थो न शौरिः पाण्डवं विना। नाजेयोऽस्त्यनयोर्लोके कृष्णयोरिति मे मतिः ॥२-१८-१४॥
अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः। युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः ॥२-१८-१५॥
सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम्। अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः ॥२-१८-१६॥
यतो हि निम्नं भवति नयन्तीह ततो जलम्। यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम् ॥२-१८-१७॥
तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम्। वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये ॥२-१८-१८॥
एवं प्रज्ञानयबलं क्रियोपायसमन्वितम्। पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये ॥२-१८-१९॥
एवमेव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये। अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम् ॥ नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति ॥२-१८-२०॥
एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः। वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति ॥२-१८-२१॥
वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान्। आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः ॥२-१८-२२॥
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम्। रविसोमाग्निवपुषां भीममासीत्तदा वपुः ॥२-१८-२३॥
हतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ। एककार्यसमुद्युक्तौ कृष्णौ युद्धेऽपराजितौ ॥२-१८-२४॥
ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने। धर्मार्थकामकार्याणां कार्याणामिव निग्रहे ॥२-१८-२५॥
कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम्। रम्यं पद्मसरो गत्वा कालकूटमतीत्य च ॥२-१८-२६॥
गण्डकीयां तथा शोणं सदानीरां तथैव च। एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते ॥२-१८-२७॥
सन्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान्। अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् ॥२-१८-२८॥
उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः। कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः ॥२-१८-२९॥
ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम्। गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् ॥२-१८-३०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.