Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.020
Pancharatra: Having heard the accusations of Krishna, Jarasandha prepares for the battle.
जरासन्ध उवाच॥
न स्मरेयं कदा वैरं कृतं युष्माभिरित्युत। चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् ॥२-२०-१॥
वैकृते चासति कथं मन्यध्वं मामनागसम्। अरिं विब्रूत तद्विप्राः सतां समय एष हि ॥२-२०-२॥
अथ धर्मोपघाताद्धि मनः समुपतप्यते। योऽनागसि प्रसृजति क्षत्रियोऽपि न संशयः ॥२-२०-३॥
अतोऽन्यथाचरँल्लोके धर्मज्ञः सन्महाव्रतः। वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ॥२-२०-४॥
त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम्। अनागसं प्रजानानाः प्रमादादिव जल्पथ ॥२-२०-५॥
वासुदेव उवाच॥
कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः। वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः ॥२-२०-६॥
त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः। तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम् ॥२-२०-७॥
राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम। तद्राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि ॥२-२०-८॥
अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम्। वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः ॥२-२०-९॥
मनुष्याणां समालम्भो न च दृष्टः कदाचन। स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम् ॥२-२०-१०॥
सवर्णो हि सवर्णानां पशुसञ्ज्ञां करिष्यति। कोऽन्य एवं यथा हि त्वं जरासन्ध वृथामतिः ॥२-२०-११॥
ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः। ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः ॥२-२०-१२॥
नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत्। मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः ॥२-२०-१३॥
को हि जानन्नभिजनमात्मनः क्षत्रियो नृप। नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् ॥२-२०-१४॥
स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः। यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप ॥२-२०-१५॥
स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः। स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान् ॥२-२०-१६॥
एष ह्यैन्द्रो वैजयन्तो गुणो नित्यं समाहितः। येनासुरान्पराजित्य जगत्पाति शतक्रतुः ॥२-२०-१७॥
स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव। मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः ॥२-२०-१८॥
मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे। समं तेजस्त्वया चैव केवलं मनुजेश्वर ॥२-२०-१९॥
यावदेव न सम्बुद्धं तावदेव भवेत्तव। विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते ॥२-२०-२०॥
जहि त्वं सदृशेष्वेव मानं दर्पं च मागध। मा गमः ससुतामात्यः सबलश्च यमक्षयम् ॥२-२०-२१॥
दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः। श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः ॥२-२०-२२॥
मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः। शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ ॥२-२०-२३॥
त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध। मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम् ॥२-२०-२४॥
जरासन्ध उवाच॥
नाजितान्वै नरपतीनहमादद्मि कांश्चन। जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः ॥२-२०-२५॥
क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम्। विक्रम्य वशमानीय कामतो यत्समाचरेत् ॥२-२०-२६॥
देवतार्थमुपाकृत्य राज्ञः कृष्ण कथं भयात्। अहमद्य विमुञ्चेयं क्षात्रं व्रतमनुस्मरन् ॥२-२०-२७॥
सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः। द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा ॥२-२०-२८॥
वैशम्पायन उवाच॥
एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम्। आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः ॥२-२०-२९॥
स तु सेनापती राजा सस्मार भरतर्षभ। कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते ॥२-२०-३०॥
ययोस्ते नामनी लोके हंसेति डिभकेति च। पूर्वं सङ्कथिते पुम्भिर्नृलोके लोकसत्कृते ॥२-२०-३१॥
तं तु राजन्विभुः शौरी राजानं बलिनां वरम्। स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम् ॥२-२०-३२॥
सत्यसन्धो जरासन्धं भुवि भीमपराक्रमम्। भागमन्यस्य निर्दिष्टं वध्यं भूमिभृदच्युतः ॥२-२०-३३॥
नात्मनात्मवतां मुख्य इयेष मधुसूदनः। ब्रह्मणोऽऽज्ञां पुरस्कृत्य हन्तुं हलधरानुजः ॥२-२०-३४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.