02.021
Pancharatra: The battle between Jarasandha and Bheema.
वैशम्पायन उवाच॥
ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः। उवाच वाग्मी राजानं जरासन्धमधोक्षजः ॥२-२१-१॥
त्रयाणां केन ते राजन्योद्धुं वितरते मनः। अस्मदन्यतमेनेह सज्जीभवतु को युधि ॥२-२१-२॥
एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः। जरासन्धस्ततो राजन्भीमसेनेन मागधः ॥२-२१-३॥
धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च। उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः ॥२-२१-४॥
कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना। समनह्यज्जरासन्धः क्षत्रधर्ममनुव्रतः ॥२-२१-५॥
अवमुच्य किरीटं स केशान्समनुमृज्य च। उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः ॥२-२१-६॥
उवाच मतिमान्राजा भीमं भीमपराक्रमम्। भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् ॥२-२१-७॥
एवमुक्त्वा जरासन्धो भीमसेनमरिंदमः। प्रत्युद्ययौ महातेजाः शक्रं बलिरिवासुरः ॥२-२१-८॥
ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली। भीमसेनो जरासन्धमाससाद युयुत्सया ॥२-२१-९॥
ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः। वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ॥२-२१-१०॥
तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा। आसीत्सुभीमसंह्रादो वज्रपर्वतयोरिव ॥२-२१-११॥
उभौ परमसंहृष्टौ बलेनातिबलावुभौ। अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥२-२१-१२॥
तद्भीममुत्सार्य जनं युद्धमासीदुपह्वरे। बलिनोः संयुगे राजन्वृत्रवासवयोरिव ॥२-२१-१३॥
प्रकर्षणाकर्षणाभ्यामभ्याकर्षविकर्षणैः। आकर्षेतां तथान्योन्यं जानुभिश्चाभिजघ्नतुः ॥२-२१-१४॥
ततः शब्देन महता भर्त्सयन्तौ परस्परम्। पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः ॥२-२१-१५॥
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ। बाहुभिः समसज्जेतामायसैः परिघैरिव ॥२-२१-१६॥
कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि। अनारतं दिवारात्रमविश्रान्तमवर्तत ॥२-२१-१७॥
तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः। चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् ॥२-२१-१८॥
तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः। उवाच भीमकर्माणं भीमं सम्बोधयन्निव ॥२-२१-१९॥
क्लान्तः शत्रुर्न कौन्तेय लभ्यः पीडयितुं रणे। पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः ॥२-२१-२०॥
तस्मात्ते नैव कौन्तेय पीडनीयो नराधिपः। सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ ॥२-२१-२१॥
एवमुक्तः स कृष्णेन पाण्डवः परवीरहा। जरासन्धस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे ॥२-२१-२२॥
ततस्तमजितं जेतुं जरासन्धं वृकोदरः। संरभ्य बलिनां मुख्यो जग्राह कुरुनन्दनः ॥२-२१-२३॥