02.049
Pancharatra: Duryodhana continues to describe and lament in front of his father.
दुर्योधन उवाच॥
आर्यास्तु ये वै राजानः सत्यसन्धा महाव्रताः। पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः ॥२-४९-१॥
धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः। मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते ॥२-४९-२॥
दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः। आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः ॥२-४९-३॥
आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत। अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः ॥२-४९-४॥
बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम्। सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः ॥२-४९-५॥
सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः। ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम् ॥२-४९-६॥
दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः। वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् ॥२-४९-७॥
मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ। आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा ॥२-४९-८॥
चेकितान उपासङ्गं धनुः काश्य उपाहरत्। असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् ॥२-४९-९॥
अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः। नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् ॥२-४९-१०॥
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः। जामदग्न्येन सहितास्तथान्ये वेदपारगाः ॥२-४९-११॥
अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम्। महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा ॥२-४९-१२॥
अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः। धनञ्जयश्च व्यजने भीमसेनश्च पाण्डवः ॥२-४९-१३॥
उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः। तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः ॥२-४९-१४॥
सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा। तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् ॥२-४९-१५॥
गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम्। उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः ॥२-४९-१६॥
तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात्। प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन् ॥२-४९-१७॥
प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा। धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ॥२-४९-१८॥
सत्त्वस्थाः शौर्यसम्पन्ना अन्योन्यप्रियकारिणः। विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ॥२-४९-१९॥
ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम्। शतान्यनडुहां पञ्च द्विजमुख्येषु भारत ॥२-४९-२०॥
नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च। न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः ॥२-४९-२१॥
यथातिमात्रं कौन्तेयः श्रिया परमया युतः। राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः ॥२-४९-२२॥
एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो। कथं नु जीवितं श्रेयो मम पश्यसि भारत ॥२-४९-२३॥
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप। कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत ॥२-४९-२४॥
एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणोऽपि कुरुप्रवीर। तेनाहमेवं कृशतां गतश्च; विवर्णतां चैव सशोकतां च ॥२-४९-२५॥