Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.055
Core-Pancharatra: Vidhura warns Dhritarastra about Duryodhana.
विदुर उवाच॥
महाराज विजानीहि यत्त्वां वक्ष्यामि तच्छृणु। मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् ॥२-५५-१॥
यद्वै पुरा जातमात्रो रुराव; गोमायुवद्विस्वरं पापचेताः। दुर्योधनो भारतानां कुलघ्नः; सोऽयं युक्तो भविता कालहेतुः ॥२-५५-२॥
गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे। दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम ॥२-५५-३॥
मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते। आरुह्य तं मज्जति वा पतनं वाधिगच्छति ॥२-५५-४॥
सोऽयं मत्तोऽक्षदेवेन मधुवन्न परीक्षते। प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः ॥२-५५-५॥
विदितं ते महाराज राजस्वेवासमञ्जसम्। अन्धका यादवा भोजाः समेताः कंसमत्यजन् ॥२-५५-६॥
नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिना। एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः ॥२-५५-७॥
त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम्। निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम् ॥२-५५-८॥
काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च। क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे ॥२-५५-९॥
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥२-५५-१०॥
सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः। इति स्म भाषते काव्यो जम्भत्यागे महासुरान् ॥२-५५-११॥
हिरण्यष्ठीविनः कश्चित्पक्षिणो वनगोचरान्। गृहे किल कृतावासाँल्लोभाद्राजन्नपीडयत् ॥२-५५-१२॥
सदोपभोज्याँल्लोभान्धो हिरण्यार्थे परन्तप। आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् ॥२-५५-१३॥
तदात्वकामः पाण्डूंस्त्वं मा द्रुहो भरतर्षभ। मोहात्मा तप्यसे पश्चात्पक्षिहा पुरुषो यथा ॥२-५५-१४॥
जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत। मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः ॥२-५५-१५॥
वृक्षानङ्गारकारीव मैनान्धाक्षीः समूलकान्। मा गमः ससुतामात्यः सबलश्च पराभवम् ॥२-५५-१६॥
समवेतान्हि कः पार्थान्प्रतियुध्येत भारत। मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः ॥२-५५-१७॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.