02.056
Core-Pancharatra: Vidhura asks to stop Duryodhana from the path of self destruction.
विदुर उवाच॥
द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाय। यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो; दुर्योधनः सृजते वैरमुग्रम् ॥२-५६-१॥
प्रातिपीयाः शान्तनवा भैमसेनाः सबाह्लिकाः। दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः ॥२-५६-२॥
दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति। विषाणं गौरिव मदात्स्वयमारुजते बलात् ॥२-५६-३॥
यश्चित्तमन्वेति परस्य राज; न्वीरः कविः स्वामतिपत्य दृष्टिम्। नावं समुद्र इव बालनेत्रा; मारुह्य घोरे व्यसने निमज्जेत् ॥२-५६-४॥
दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच्च। अतिनर्माज्जायते सम्प्रहारो; यतो विनाशः समुपैति पुंसाम् ॥२-५६-५॥
आकर्षस्तेऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिः। युधिष्ठिरेण सफलः संस्तवोऽस्तु; साम्नः सुरिक्तोऽरिमतेः सुधन्वा ॥२-५६-६॥
प्रातिपीयाः शान्तनवाश्च राज; न्काव्यां वाचं शृणुत मात्यगाद्वः। वैश्वानरं प्रज्वलितं सुघोर; मयुद्धेन प्रशमयतोत्पतन्तम् ॥२-५६-७॥
यदा मन्युं पाण्डवोऽजातशत्रु; र्न संयच्छेदक्षमयाभिभूतः। वृकोदरः सव्यसाची यमौ च; कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् ॥२-५६-८॥
महाराज प्रभवस्त्वं धनानां; पुरा द्यूतान्मनसा यावदिच्छेः। बहु वित्तं पाण्डवांश्चेज्जयेस्त्वं; किं तेन स्याद्वसु विन्देह पार्थान् ॥२-५६-९॥
जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयः। यतः प्राप्तः शकुनिस्तत्र यातु; मायायोधी भारत पार्वतीयः ॥२-५६-१०॥