Mahabharata - Sabha Parva (महाभारत - सभापर्वम्)
02.063
Core-Pancharatra: Bhima owes to break Duryodhana’s thighs
कर्ण उवाच॥
त्रयः किलेमे अधना भवन्ति; दासः शिष्यश्चास्वतन्त्रा च नारी। दासस्य पत्नी त्वं धनमस्य भद्रे; हीनेश्वरा दासधनं च दासी ॥२-६३-१॥
प्रविश्य सा नः परिचारैर्भजस्व; तत्ते कार्यं शिष्टमावेश्य वेश्म। ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः ॥२-६३-२॥
अन्यं वृणीष्व पतिमाशु भामिनि; यस्माद्दास्यं न लभसे देवनेन। अनवद्या वै पतिषु कामवृत्ति; र्नित्यं दास्ये विदितं वै तवास्तु ॥२-६३-३॥
पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवोऽर्जुनश्च। दासीभूता प्रविश याज्ञसेनि; पराजितास्ते पतयो न सन्ति ॥२-६३-४॥
प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः। पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां; सभामध्ये योऽतिदेवीद्ग्लहेषु ॥२-६३-५॥
वैशम्पायन उवाच॥
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः। राजानुगो धर्मपाशानुबद्धो; दहन्निवैनं कोपविरक्तदृष्टिः ॥२-६३-६॥
भीम उवाच॥
नाहं कुप्ये सूतपुत्रस्य राज; न्नेष सत्यं दासधर्मः प्रविष्टः। किं विद्विषो वाद्य मां धारयेयु; र्नादेवीस्त्वं यद्यनया नरेन्द्र ॥२-६३-७॥
वैशम्पायन उवाच॥
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा। युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतसम् ॥२-६३-८॥
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने। प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे ॥२-६३-९॥
एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम्। स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः ॥२-६३-१०॥
कदलीदण्डसदृशं सर्वलक्षणपूजितम्। गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ॥२-६३-११॥
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव। द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ॥२-६३-१२॥
वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते। प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ॥२-६३-१३॥
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः। यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ॥२-६३-१४॥
क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः। वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ॥२-६३-१५॥
विदुर उवाच॥
परं भयं पश्यत भीमसेना; द्बुध्यध्वं राज्ञो वरुणस्येव पाशात्। दैवेरितो नूनमयं पुरस्ता; त्परोऽनयो भरतेषूदपादि ॥२-६३-१६॥
अतिद्यूतं कृतमिदं धार्तराष्ट्रा; येऽस्यां स्त्रियं विवदध्वं सभायाम्। योगक्षेमो दृश्यते वो महाभयः; पापान्मन्त्रान्कुरवो मन्त्रयन्ति ॥२-६३-१७॥
इमं धर्मं कुरवो जानताशु; दुर्दृष्टेऽस्मिन्परिषत्सम्प्रदुष्येत्। इमां चेत्पूर्वं कितवोऽग्लहीष्य; दीशोऽभविष्यदपराजितात्मा ॥२-६३-१८॥
स्वप्ने यथैतद्धि धनं जितं स्यात्तदेवं मन्ये यस्य दीव्यत्यनीशः। गान्धारिपुत्रस्य वचो निशम्य धर्मादस्मात्कुरवो मापयात ॥२-६३-१९॥
दुर्योधन उवाच॥
भीमस्य वाक्ये तद्वदेवार्जुनस्य; स्थितोऽहं वै यमयोश्चैवमेव। युधिष्ठिरं चेत्प्रवदन्त्यनीश; मथो दास्यान्मोक्ष्यसे याज्ञसेनि ॥२-६३-२०॥
अर्जुन उवाच॥
ईशो राजा पूर्वमासीद्ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा। ईशस्त्वयं कस्य पराजितात्मा; तज्जानीध्वं कुरवः सर्व एव ॥२-६३-२१॥
वैशम्पायन उवाच॥
ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमायुरुच्चैर्व्याहरदग्निहोत्रे। तं रासभाः प्रत्यभाषन्त राज; न्समन्ततः पक्षिणश्चैव रौद्राः ॥२-६३-२२॥
तं च शब्दं विदुरस्तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च। भीष्मद्रोणौ गौतमश्चापि विद्वा; न्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः ॥२-६३-२३॥
ततो गान्धारी विदुरश्चैव विद्वां; स्तमुत्पातं घोरमालक्ष्य राज्ञे। निवेदयामासतुरार्तवत्तदा; ततो राजा वाक्यमिदं बभाषे ॥२-६३-२४॥
हतोऽसि दुर्योधन मन्दबुद्धे; यस्त्वं सभायां कुरुपुङ्गवानाम्। स्त्रियं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम् ॥२-६३-२५॥
एवमुक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी बान्धवानामपायात्। कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं; विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ॥२-६३-२६॥
धृतराष्ट्र उवाच॥
वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि। वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ॥२-६३-२७॥
द्रौपद्युवाच॥
ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ। सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ॥२-६३-२८॥
मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः। एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् ॥२-६३-२९॥
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित्। लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ॥२-६३-३०॥
धृतराष्ट्र उवाच॥
द्वितीयं ते वरं भद्रे ददामि वरयस्व माम्। मनो हि मे वितरति नैकं त्वं वरमर्हसि ॥२-६३-३१॥
द्रौपद्युवाच॥
सरथौ सधनुष्कौ च भीमसेनधनञ्जयौ। नकुलं सहदेवं च द्वितीयं वरये वरम् ॥२-६३-३२॥
धृतराष्ट्र उवाच॥
तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता। त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ॥२-६३-३३॥
द्रौपद्युवाच॥
लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे। अनर्हा वरमादातुं तृतीयं राजसत्तम ॥२-६३-३४॥
एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ। त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ॥२-६३-३५॥
पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम। वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ॥२-६३-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.