02.068
Core: Bhima, Arjuna, Sahadeva and Nakula each owe to kill Kauravas, Karna, Shakuni and others.
वैशम्पायन उवाच॥
वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः। अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ॥२-६८-१॥
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान्। प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् ॥२-६८-२॥
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः। पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः ॥२-६८-३॥
अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः। गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः ॥२-६८-४॥
नरकं पातिताः पार्था दीर्घकालमनन्तकम्। सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ॥२-६८-५॥
बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः। ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः ॥२-६८-६॥
चित्रान्संनाहानवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति। निवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौबलस्याभ्युपेताः ॥२-६८-७॥
न सन्ति लोकेषु पुमांस ईदृशा; इत्येव ये भावितबुद्धयः सदा। ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः ॥२-६८-८॥
अयं हि वासोदय ईदृशानां; मनस्विनां कौरव मा भवेद्वः। अदीक्षितानामजिनानि यद्व; द्बलीयसां पश्यत पाण्डवानाम् ॥२-६८-९॥
महाप्राज्ञः सोमको यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय। अकार्षीद्वै दुष्कृतं नेह सन्ति; क्लीबाः पार्थाः पतयो याज्ञसेन्याः ॥२-६८-१०॥
सूक्ष्मान्प्रावारानजिनानि चोदिता; न्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान्। कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यमिहान्यमिच्छसि ॥२-६८-११॥
एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाः। एषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत्कालविपर्ययोऽयम् ॥२-६८-१२॥
यथाफलाः षण्ढतिला यथा चर्ममया मृगाः। तथैव पाण्डवाः सर्वे यथा काकयवा अपि ॥२-६८-१३॥
किं पाण्डवांस्त्वं पतितानुपास्से; मोघः श्रमः षण्ढतिलानुपास्य। एवं नृशंसः परुषाणि पार्था; नश्रावयद्धृतराष्ट्रस्य पुत्रः ॥२-६८-१४॥
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात्। उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम् ॥२-६८-१५॥
भीमसेन उवाच॥
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे। गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ॥२-६८-१६॥
यथा तुदसि मर्माणि वाक्षरैरिह नो भृशम्। तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे ॥२-६८-१७॥
ये च त्वामनुवर्तन्ते कामलोभवशानुगाः। गोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम् ॥२-६८-१८॥
वैशम्पायन उवाच॥
एवं ब्रुवाणमजिनैर्विवासितं; दुःखाभिभूतं परिनृत्यति स्म। मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर्गौरिति स्माह्वयन्मुक्तलज्जः ॥२-६८-१९॥
भीमसेन उवाच॥
नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया। निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति ॥२-६८-२०॥
मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरः। यदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे ॥२-६८-२१॥
धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम्। शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः ॥२-६८-२२॥
वैशम्पायन उवाच॥
तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात्। गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभायाः ॥२-६८-२३॥
नैतावता कृतमित्यब्रवीत्तं; वृकोदरः संनिवृत्तार्धकायः। शीघ्रं हि त्वा निहतं सानुबन्धं; संस्मार्याहं प्रतिवक्ष्यामि मूढ ॥२-६८-२४॥
एतत्समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान्स मानी। राजानुगः संसदि कौरवाणां; विनिष्क्रमन्वाक्यमुवाच भीमः ॥२-६८-२५॥
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः। शकुनिं चाक्षकितवं सहदेवो हनिष्यति ॥२-६८-२६॥
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः। सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ॥२-६८-२७॥
सुयोधनमिमं पापं हन्तास्मि गदया युधि। शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ॥२-६८-२८॥
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः। दुःशासनस्य रुधिरं पातास्मि मृगराडिव ॥२-६८-२९॥
अर्जुन उवाच॥
नैव वाचा व्यवसितं भीम विज्ञायते सताम्। इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ॥२-६८-३०॥
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः। दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥२-६८-३१॥
असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम्। भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे ॥२-६८-३२॥
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया। कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः ॥२-६८-३३॥
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः। तांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम् ॥२-६८-३४॥
चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः। शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ॥२-६८-३५॥
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे। दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति ॥२-६८-३६॥
वैशम्पायन उवाच॥
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः। प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ॥२-६८-३७॥
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत्। क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः ॥२-६८-३८॥
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर। नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः ॥२-६८-३९॥
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम्। कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ॥२-६८-४०॥
हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम्। यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल ॥२-६८-४१॥
सहदेववचः श्रुत्वा नकुलोऽपि विशां पते। दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ॥२-६८-४२॥
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः। यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये ॥२-६८-४३॥
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान्। दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ॥२-६८-४४॥
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्। निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव ॥२-६८-४५॥
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः। प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् ॥२-६८-४६॥