02.069
Pancharatra: Kunti stays with Vidura and Vidura bids farewell to Pandavas.
युधिष्ठिर उवाच॥
आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम्। राजानं सोमदत्तं च महाराजं च बाह्लिकम् ॥२-६९-१॥
द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च। विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः ॥२-६९-२॥
युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः। सर्वानामन्त्र्य गच्छामि द्रष्टास्मि पुनरेत्य वः ॥२-६९-३॥
वैशम्पायन उवाच॥
न च किञ्चित्तदोचुस्ते ह्रिया सन्तो युधिष्ठिरम्। मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः ॥२-६९-४॥
विदुर उवाच॥
आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति। सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता ॥२-६९-५॥
इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि। इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः ॥२-६९-६॥
युधिष्ठिर विजानीहि ममेदं भरतर्षभ। नाधर्मेण जितः कश्चिद्व्यथते वै पराजयात् ॥२-६९-७॥
त्वं वै धर्मान्विजानीषे युधां वेत्ता धनञ्जयः। हन्तारीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही ॥२-६९-८॥
संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः। धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी ॥२-६९-९॥
अन्योन्यस्य प्रियाः सर्वे तथैव प्रियवादिनः। परैरभेद्याः सन्तुष्टाः को वो न स्पृहयेदिह ॥२-६९-१०॥
एष वै सर्वकल्याणः समाधिस्तव भारत। नैनं शत्रुर्विषहते शक्रेणापि समोऽच्युत ॥२-६९-११॥
हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा। द्वैपायनेन कृष्णेन नगरे वारणावते ॥२-६९-१२॥
भृगुतुङ्गे च रामेण दृषद्वत्यां च शम्भुना। अश्रौषीरसितस्यापि महर्षेरञ्जनं प्रति ॥२-६९-१३॥
द्रष्टा सदा नारदस्य धौम्यस्तेऽयं पुरोहितः। मा हार्षीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम् ॥२-६९-१४॥
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव। शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्मोपसेवया ॥२-६९-१५॥
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे। विसर्गे चैव कौबेरे वारुणे चैव संयमे ॥२-६९-१६॥
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम्। भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् ॥२-६९-१७॥
वायोर्बलं विद्धि स त्वं भूतेभ्यश्चात्मसम्भवम्। अगदं वोऽस्तु भद्रं वो द्रक्ष्यामि पुनरागतान् ॥२-६९-१८॥
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः। यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर ॥२-६९-१९॥
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत। कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम् ॥२-६९-२०॥
वैशम्पायन उवाच॥
एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः। भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः ॥२-६९-२१॥