Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.006
Pancharatra: Vidura comes to Pandavas and gives his advice.
वैशम्पायन उवाच॥
पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः। प्रययुर्जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः ॥३-६-१॥
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते। ययुर्वनेनैव वनं सततं पश्चिमां दिशम् ॥३-६-२॥
ततः सरस्वतीकूले समेषु मरुधन्वसु। काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥३-६-३॥
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे। अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥३-६-४॥
विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः। जगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥३-६-५॥
ततो यात्वा विदुरः काननं त; च्छीघ्रैरश्वैर्वाहिना स्यन्दनेन। ददर्शासीनं धर्मराजं विविक्ते; सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥३-६-६॥
ततोऽपश्यद्विदुरं तूर्णमारा; दभ्यायान्तं सत्यसन्धः स राजा। अथाब्रवीद्भ्रातरं भीमसेनं; किं नु क्षत्ता वक्ष्यति नः समेत्य ॥३-६-७॥
कच्चिन्नायं वचनात्सौबलस्य; समाह्वाता देवनायोपयाति। कच्चित्क्षुद्रः शकुनिर्नायुधानि; जेष्यत्यस्मान्पुनरेवाक्षवत्याम् ॥३-६-८॥
समाहूतः केनचिदाद्रवेति; नाहं शक्तो भीमसेनापयातुम्। गाण्डीवे वा संशयिते कथं चि; द्राज्यप्राप्तिः संशयिता भवेन्नः ॥३-६-९॥
तत उत्थाय विदुरं पाण्डवेयाः; प्रत्यगृह्णन्नृपते सर्व एव। तैः सत्कृतः स च तानाजमीढो; यथोचितं पाण्डुपुत्रान्समेयात् ॥३-६-१०॥
समाश्वस्तं विदुरं ते नरर्षभा; स्ततोऽपृच्छन्नागमनाय हेतुम्। स चापि तेभ्यो विस्तरतः शशंस; यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः ॥३-६-११॥
विदुर उवाच॥
अवोचन्मां धृतराष्ट्रोऽनुगुप्त; मजातशत्रो परिगृह्याभिपूज्य। एवं गते समतामभ्युपेत्य; पथ्यं तेषां मम चैव ब्रवीहि ॥३-६-१२॥
मयाप्युक्तं यत्क्षमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव। तद्वै पथ्यं तन्मनो नाभ्युपैति; ततश्चाहं क्षममन्यन्न मन्ये ॥३-६-१३॥
परं श्रेयः पाण्डवेया मयोक्तं; न मे तच्च श्रुतवानाम्बिकेयः। यथातुरस्येव हि पथ्यमन्नं; न रोचते स्मास्य तदुच्यमानम् ॥३-६-१४॥
न श्रेयसे नीयतेऽजातशत्रो; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा। ब्रुवन्न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ॥३-६-१५॥
ध्रुवं विनाशो नृप कौरवाणां; न वै श्रेयो धृतराष्ट्रः परैति। यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् ॥३-६-१६॥
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां; यत्र श्रद्धा भारत तत्र याहि। नाहं भूयः कामये त्वां सहायं; महीमिमां पालयितुं पुरं वा ॥३-६-१७॥
सोऽहं त्यक्तो धृतराष्ट्रेण राजं; स्त्वां शासितुमुपयातस्त्वरावान्। तद्वै सर्वं यन्मयोक्तं सभायां; तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥३-६-१८॥
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः; क्षमां कुर्वन्कालमुपासते यः। सं वर्धयन्स्तोकमिवाग्निमात्मवा; न्स वै भुङ्क्ते पृथिवीमेक एव ॥३-६-१९॥
यस्याविभक्तं वसु राजन्सहायै; स्तस्य दुःखेऽप्यंशभाजः सहायाः। सहायानामेष सङ्ग्रहणेऽभ्युपायः; सहायाप्तौ पृथिवीप्राप्तिमाहुः ॥३-६-२०॥
सत्यं श्रेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भोज्यं सहायैः। आत्मा चैषामग्रतो नातिवर्ते; देवंवृत्तिर्वर्धते भूमिपालः ॥३-६-२१॥
युधिष्ठिर उवाच॥
एवं करिष्यामि यथा ब्रवीषि; परां बुद्धिमुपगम्याप्रमत्तः। यच्चाप्यन्यद्देशकालोपपन्नं; तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥३-६-२२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.