Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.005
Pancharatra: Dhritarastra’s enquiry to Vidura on how to safeguard themselves from citizens. Vidura departs.
वैशम्पायन उवाच॥
वनं प्रविष्टेष्वथ पाण्डवेषु; प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः। धर्मात्मानं विदुरमगाधबुद्धिं; सुखासीनो वाक्यमुवाच राजा ॥३-५-१॥
प्रज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च त्वं परमं वेत्थ सूक्ष्मम्। समश्च त्वं संमतः कौरवाणां; पथ्यं चैषां मम चैव ब्रवीहि ॥३-५-२॥
एवं गते विदुर यदद्य कार्यं; पौराश्चेमे कथमस्मान्भजेरन्। ते चाप्यस्मान्नोद्धरेयुः समूला; न्न कामये तांश्च विनश्यमानान् ॥३-५-३॥
विदुर उवाच॥
त्रिवर्गोऽयं धर्ममूलो नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति। धर्मे राजन्वर्तमानः स्वशक्त्या; पुत्रान्सर्वान्पाहि कुन्तीसुतांश्च ॥३-५-४॥
स वै धर्मो विप्रलुप्तः सभायां; पापात्मभिः सौबलेयप्रधानैः। आहूय कुन्तीसुतमक्षवत्यां; पराजैषीत्सत्यसन्धं सुतस्ते ॥३-५-५॥
एतस्य ते दुष्प्रणीतस्य राज; ञ्शेषस्याहं परिपश्याम्युपायम्। यथा पुत्रस्तव कौरव्य पापा; न्मुक्तो लोके प्रतितिष्ठेत साधु ॥३-५-६॥
तद्वै सर्वं पाण्डुपुत्रा लभन्तां; यत्तद्राजन्नतिसृष्टं त्वयासीत्। एष धर्मः परमो यत्स्वकेन; राजा तुष्येन्न परस्वेषु गृध्येत् ॥३-५-७॥
एतत्कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश्चावमानः। एवं शेषं यदि पुत्रेषु ते स्या; देतद्राजंस्त्वरमाणः कुरुष्व ॥३-५-८॥
अथैतदेवं न करोषि राज; न्ध्रुवं कुरूणां भविता विनाशः। न हि क्रुद्धो भीमसेनोऽर्जुनो वा; शेषं कुर्याच्छात्रवाणामनीके ॥३-५-९॥
येषां योद्धा सव्यसाची कृतास्त्रो; धनुर्येषां गाण्डिवं लोकसारम्। येषां भीमो बाहुशाली च योद्धा; तेषां लोके किं नु न प्राप्यमस्ति ॥३-५-१०॥
उक्तं पूर्वं जातमात्रे सुते ते; मया यत्ते हितमासीत्तदानीम्। पुत्रं त्यजेममहितं कुलस्ये; त्येतद्राजन्न च तत्त्वं चकर्थ ॥ इदानीं ते हितमुक्तं न चेत्त्वं; कर्तासि राजन्परितप्तासि पश्चात् ॥३-५-११॥
यद्येतदेवमनुमन्ता सुतस्ते; सम्प्रीयमाणः पाण्डवैरेकराज्यम्। तापो न ते वै भविता प्रीतियोगा; त्त्वं चेन्न गृह्णासि सुतं सहायैः ॥ अथापरो भवति हि तं निगृह्य; पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये ॥३-५-१२॥
अजातशत्रुर्हि विमुक्तरागो; धर्मेणेमां पृथिवीं शास्तु राजन्। ततो राजन्पार्थिवाः सर्व एव; वैश्या इवास्मानुपतिष्ठन्तु सद्यः ॥३-५-१३॥
दुर्योधनः शकुनिः सूतपुत्रः; प्रीत्या राजन्पाण्डुपुत्रान्भजन्ताम्। दुःशासनो याचतु भीमसेनं; सभामध्ये द्रुपदस्यात्मजां च ॥३-५-१४॥
युधिष्ठिरं त्वं परिसान्त्वयस्व; राज्ये चैनं स्थापयस्वाभिपूज्य। त्वया पृष्टः किमहमन्यद्वदेय; मेतत्कृत्वा कृतकृत्योऽसि राजन् ॥३-५-१५॥
धृतराष्ट्र उवाच॥
एतद्वाक्यं विदुर यत्ते सभाया; मिह प्रोक्तं पाण्डवान्प्राप्य मां च। हितं तेषामहितं मामकाना; मेतत्सर्वं मम नोपैति चेतः ॥३-५-१६॥
इदं त्विदानीं कुत एव निश्चितं; तेषामर्थे पाण्डवानां यदात्थ। तेनाद्य मन्ये नासि हितो ममेति; कथं हि पुत्रं पाण्डवार्थे त्यजेयम् ॥३-५-१७॥
असंशयं तेऽपि ममैव पुत्रा; दुर्योधनस्तु मम देहात्प्रसूतः। स्वं वै देहं परहेतोस्त्यजेति; को नु ब्रूयात्समतामन्ववेक्षन् ॥३-५-१८॥
स मा जिह्मं विदुर सर्वं ब्रवीषि; मानं च तेऽहमधिकं धारयामि। यथेच्छकं गच्छ वा तिष्ठ वा त्वं; सुसान्त्व्यमानाप्यसती स्त्री जहाति ॥३-५-१९॥
वैशम्पायन उवाच॥
एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्य; दन्तर्वेश्म सहसोत्थाय राजन्। नेदमस्तीत्यथ विदुरो भाषमाणः; सम्प्राद्रवद्यत्र पार्था बभूवुः ॥३-५-२०॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.