03.007
Pancharatra: Dhritarashtra asks Vidura to return and reconciles with Vidura.
वैशम्पायन उवाच॥
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति। धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत ॥३-७-१॥
स सभाद्वारमागम्य विदुरस्मारमोहितः। समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः ॥३-७-२॥
स तु लब्ध्वा पुनः सञ्ज्ञां समुत्थाय महीतलात्। समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत् ॥३-७-३॥
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः। तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे ॥३-७-४॥
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै। इति ब्रुवन्स नृपतिः करुणं पर्यदेवयत् ॥३-७-५॥
पश्चात्तापाभिसन्तप्तो विदुरस्मारकर्शितः। भ्रातृस्नेहादिदं राजन्सञ्जयं वाक्यमब्रवीत् ॥३-७-६॥
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम। यदि जीवति रोषेण मया पापेन निर्धुतः ॥३-७-७॥
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन। व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना ॥३-७-८॥
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान्। न जह्याज्जीवितं प्राज्ञस्तं गच्छानय सञ्जय ॥३-७-९॥
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च। सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम् ॥३-७-१०॥
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः। रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ॥३-७-११॥
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः। भ्रातृभिश्चाभिसङ्गुप्तं देवैरिव शतक्रतुम् ॥३-७-१२॥
युधिष्ठिरमथाभ्येत्य पूजयामास सञ्जयः। भीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत ॥३-७-१३॥
राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः। शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ॥३-७-१४॥
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः। तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम् ॥३-७-१५॥
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्। नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद ॥३-७-१६॥
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः। युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ॥३-७-१७॥
तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान्। दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ॥३-७-१८॥
अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ। प्रजागरे पपश्यामि विचित्रं देहमात्मनः ॥३-७-१९॥
सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह। क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा ॥३-७-२०॥
विदुर उवाच॥
क्षान्तमेव मया राजन्गुरुर्नः परमो भवान्। तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः ॥३-७-२१॥
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः। दीनाभिपातिनो राजन्नात्र कार्या विचारणा ॥३-७-२२॥
पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तव। दीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति ॥३-७-२३॥
वैशम्पायन उवाच॥
अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती। विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ॥३-७-२४॥