Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.008
Pancharatra: To please Duryodhana Karna suggests killing Pandavas by attacking them in the forest. Vyasa intervenes.
वैशम्पायन उवाच॥
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्। धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ॥३-८-१॥
स सौबलं समानाय्य कर्णदुःशासनावपि। अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः ॥३-८-२॥
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः। विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ॥३-८-३॥
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति। पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ॥३-८-४॥
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन। पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः ॥३-८-५॥
विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम्। करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ॥३-८-६॥
शकुनिरुवाच॥
किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते। गतास्ते समयं कृत्वा नैतदेवं भविष्यति ॥३-८-७॥
सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ। पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् ॥३-८-८॥
अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्। निरस्य समयं भूयः पणोऽस्माकं भविष्यति ॥३-८-९॥
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः। छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः ॥३-८-१०॥
दुःशासन उवाच॥
एवमेतन्महाप्राज्ञ यथा वदसि मातुल। नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते ॥३-८-११॥
कर्ण उवाच॥
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्। ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते ॥३-८-१२॥
वैशम्पायन उवाच॥
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा। नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ॥३-८-१३॥
उपलभ्य ततः कर्णो विवृत्य नयने शुभे। रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ ॥३-८-१४॥
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना। अहो मम मतं यत्तन्निबोधत नराधिपाः ॥३-८-१५॥
प्रियं सर्वे चिकीर्षामो राज्ञः किङ्करपाणयः। न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः ॥३-८-१६॥
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः। गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ॥३-८-१७॥
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्। निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ॥३-८-१८॥
यावदेव परिद्यूना यावच्छोकपरायणाः। यावन्मित्रविहीनाश्च तावच्छक्या मतं मम ॥३-८-१९॥
तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः। बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा ॥३-८-२०॥
एवमुक्त्वा तु सङ्क्रुद्धा रथैः सर्वे पृथक्पृथक्। निर्ययुः पाण्डवान्हन्तुं सङ्घशः कृतनिश्चयाः ॥३-८-२१॥
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा। आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ॥३-८-२२॥
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः। प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः ॥३-८-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.