03.009
Pancharatra: Vyasa asks Dhritarashtra to reconcile.
व्यास उवाच॥
धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम। वक्ष्यामि त्वा कौरवाणां सर्वेषां हितमुत्तमम् ॥३-९-१॥
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम्। निकृत्या निर्जिताश्चैव दुर्योधनवशानुगैः ॥३-९-२॥
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे। विमोक्ष्यन्ति विषं क्रुद्धाः करवेयेषु भारत ॥३-९-३॥
तदयं किं नु पापात्मा तव पुत्रः सुमन्दधीः। पाण्डवान्नित्यसङ्क्रुद्धो राज्यहेतोर्जिघांसति ॥३-९-४॥
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः। वनस्थांस्तानयं हन्तुमिच्छन्प्राणैर्विमोक्ष्यते ॥३-९-५॥
यथाह विदुरः प्राज्ञो यथा भीष्मो यथा वयम्। यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ॥३-९-६॥
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः। अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ॥३-९-७॥
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत। उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत् ॥३-९-८॥
अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः। पाण्डवैः सहितो राजन्नेक एवासहायवान् ॥३-९-९॥
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः। यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर ॥३-९-१०॥
अथ वा जायमानस्य यच्छीलमनुजायते। श्रूयते तन्महाराज नामृतस्यापसर्पति ॥३-९-११॥
कथं वा मन्यते भीष्मो द्रोणो वा विदुरोऽपि वा। भवान्वात्र क्षमं कार्यं पुरा चार्थोऽतिवर्तते ॥३-९-१२॥