Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.019
Pancharatra: After gaining consciousness Pradyumna urges the charioteer to return to the battlefield.
वासुदेव उवाच॥
शाल्वबाणार्दिते तस्मिन्प्रद्युम्ने बलिनां वरे। वृष्णयो भग्नसङ्कल्पा विव्यथुः पृतनागताः ॥३-१९-१॥
हाहाकृतमभूत्सार्वं वृष्ण्यन्धकबलं तदा। प्रद्युम्ने पतिते राजन्परे च मुदिताभवन् ॥३-१९-२॥
तं तथा मोहितं दृष्ट्वा सारथिर्जवनैर्हयैः। रणादपाहरत्तूर्णं शिक्षितो दारुकिस्ततः ॥३-१९-३॥
नातिदूरापयाते तु रथे रथवरप्रणुत्। धनुर्गृहीत्वा यन्तारं लब्धसञ्ज्ञोऽब्रवीदिदम् ॥३-१९-४॥
सौते किं ते व्यवसितं कस्माद्यासि पराङ्मुखः। नैष वृष्णिप्रवीराणामाहवे धर्म उच्यते ॥३-१९-५॥
कच्चित्सौते न ते मोहः शाल्वं दृष्ट्वा महाहवे। विषादो वा रणं दृष्ट्वा ब्रूहि मे त्वं यथातथम् ॥३-१९-६॥
सूत उवाच॥
जानार्दने न मे मोहो नापि मे भयमाविशत्। अतिभारं तु ते मन्ये शाल्वं केशवनन्दन ॥३-१९-७॥
सोऽपयामि शनैर्वीर बलवानेष पापकृत्। मोहितश्च रणे शूरो रक्ष्यः सारथिना रथी ॥३-१९-८॥
आयुष्मंस्त्वं मया नित्यं रक्षितव्यस्त्वयाप्यहम्। रक्षितव्यो रथी नित्यमिति कृत्वापयाम्यहम् ॥३-१९-९॥
एकश्चासि महाबाहो बहवश्चापि दानवाः। नसमं रौक्मिणेयाहं रणं मत्वापयाम्यहम् ॥३-१९-१०॥
वासुदेव उवाच॥
एवं ब्रुवति सूते तु तदा मकरकेतुमान्। उवाच सूतं कौरव्य निवर्तय रथं पुनः ॥३-१९-११॥
दारुकात्मज मैवं त्वं पुनः कार्षीः कथञ्चन। व्यपयानं रणात्सौते जीवतो मम कर्हिचित् ॥३-१९-१२॥
न स वृष्णिकुले जातो यो वै त्यजति सङ्गरम्। यो वा निपतितं हन्ति तवास्मीति च वादिनम् ॥३-१९-१३॥
तथा स्त्रियं वै यो हन्ति वृद्धं बालं तथैव च। विरथं विप्रकीर्णं च भग्नशस्त्रायुधं तथा ॥३-१९-१४॥
त्वं च सूतकुले जातो विनीतः सूतकर्मणि। धर्मज्ञश्चासि वृष्णीनामाहवेष्वपि दारुके ॥३-१९-१५॥
स जानंश्चरितं कृत्स्नं वृष्णीनां पृतनामुखे। अपयानं पुनः सौते मैवं कार्षीः कथञ्चन ॥३-१९-१६॥
अपयातं हतं पृष्ठे भीतं रणपलायिनम्। गदाग्रजो दुराधर्षः किं मां वक्ष्यति माधवः ॥३-१९-१७॥
केशवस्याग्रजो वापि नीलवासा मदोत्कटः। किं वक्ष्यति महाबाहुर्बलदेवः समागतः ॥३-१९-१८॥
किं वक्ष्यति शिनेर्नप्ता नरसिंहो महाधनुः। अपयातं रणात्सौते साम्बश्च समितिञ्जयः ॥३-१९-१९॥
चारुदेष्णश्च दुर्धर्षस्तथैव गदसारणौ। अक्रूरश्च महाबाहुः किं मां वक्ष्यति सारथे ॥३-१९-२०॥
शूरं सम्भावितं सन्तं नित्यं पुरुषमानिनम्। स्त्रियश्च वृष्णीवीराणां किं मां वक्ष्यन्ति सङ्गताः ॥३-१९-२१॥
प्रद्युम्नोऽयमुपायाति भीतस्त्यक्त्वा महाहवम्। धिगेनमिति वक्ष्यन्ति न तु वक्ष्यन्ति साध्विति ॥३-१९-२२॥
धिग्वाचा परिहासोऽपि मम वा मद्विधस्य वा। मृत्युनाभ्यधिकः सौते स त्वं मा व्यपयाः पुनः ॥३-१९-२३॥
भारं हि मयि संन्यस्य यातो मधुनिहा हरिः। यज्ञं भरतसिंहस्य पार्थस्यामिततेजसः ॥३-१९-२४॥
कृतवर्मा मया वीरो निर्यास्यन्नेव वारितः। शाल्वं निवारयिष्येऽहं तिष्ठ त्वमिति सूतज ॥३-१९-२५॥
स च सम्भावयन्मां वै निवृत्तो हृदिकात्मजः। तं समेत्य रणं त्यक्त्वा किं वक्ष्यामि महारथम् ॥३-१९-२६॥
उपयातं दुराधर्षं शङ्खचक्रगदाधरम्। पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम् ॥३-१९-२७॥
सात्यकिं बलदेवं च ये चान्येऽन्धकवृष्णयः। मया स्पर्धन्ति सततं किं नु वक्ष्यामि तानहम् ॥३-१९-२८॥
त्यक्त्वा रणमिमं सौते पृष्ठतोऽभ्याहतः शरैः। त्वयापनीतो विवशो न जीवेयं कथञ्चन ॥३-१९-२९॥
स निवर्त रथेनाशु पुनर्दारुकनन्दन। न चैतदेवं कर्तव्यमथापत्सु कथञ्चन ॥३-१९-३०॥
न जीवितमहं सौते बहु मन्ये कदाचन। अपयातो रणाद्भीतः पृष्ठतोऽभ्याहतः शरैः ॥३-१९-३१॥
कदा वा सूतपुत्र त्वं जानीषे मां भयार्दितम्। अपयातं रणं हित्वा यथा कापुरुषं तथा ॥३-१९-३२॥
न युक्तं भवता त्यक्तुं सङ्ग्रामं दारुकात्मज। मयि युद्धार्थिनि भृशं स त्वं याहि यतो रणम् ॥३-१९-३३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.