Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.018
Pancharatra: Pradyumna is overpowered by Shalva in the battle.
वासुदेव उवाच॥
एवमुक्त्वा रौक्मिणेयो यादवान्भरतर्षभ। दंशितैर्हरिभिर्युक्तं रथमास्थाय काञ्चनम् ॥३-१८-१॥
उच्छ्रित्य मकरं केतुं व्यात्ताननमलङ्कृतम्। उत्पतद्भिरिवाकाशं तैर्हयैरन्वयात्परान् ॥३-१८-२॥
विक्षिपन्नादयंश्चापि धनुःश्रेष्ठं महाबलः। तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ॥३-१८-३॥
स विद्युच्चलितं चापं विहरन्वै तलात्तलम्। मोहयामास दैतेयान्सर्वान्सौभनिवासिनः ॥३-१८-४॥
नास्य विक्षिपतश्चापं संदधानस्य चासकृत्। अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे ॥३-१८-५॥
मुखस्य वर्णो न विकल्पतेऽस्य; चेलुश्च गात्राणि न चापि तस्य। सिंहोन्नतं चाप्यभिगर्जतोऽस्य; शुश्राव लोकोऽद्भुतरूपमग्र्यम् ॥३-१८-६॥
जलेचरः काञ्चनयष्टिसंस्थो; व्यात्ताननः सर्वतिमिप्रमाथी। वित्रासयन्राजति वाहमुख्ये; शाल्वस्य सेनाप्रमुखे ध्वजाग्र्यः ॥३-१८-७॥
ततः स तूर्णं निष्पत्य प्रद्युम्नः शत्रुकर्शनः। शाल्वमेवाभिदुद्राव विधास्यन्कलहं नृप ॥३-१८-८॥
अभियानं तु वीरेण प्रद्युम्नेन महाहवे। नामर्षयत सङ्क्रुद्धः शाल्वः कुरुकुलोद्वह ॥३-१८-९॥
स रोषमदमत्तो वै कामगादवरुह्य च। प्रद्युम्नं योधयामास शाल्वः परपुरञ्जयः ॥३-१८-१०॥
तयोः सुतुमुलं युद्धं शाल्ववृष्णिप्रवीरयोः। समेता ददृशुर्लोका बलिवासवयोरिव ॥३-१८-११॥
तस्य मायामयो वीर रथो हेमपरिष्कृतः। सध्वजः सपताकश्च सानुकर्षः सतूणवान् ॥३-१८-१२॥
स तं रथवरं श्रीमान्समारुह्य किल प्रभो। मुमोच बाणान्कौरव्य प्रद्युम्नाय महाबलः ॥३-१८-१३॥
ततो बाणमयं वर्षं व्यसृजत्तरसा रणे। प्रद्युम्नो भुजवेगेन शाल्वं संमोहयन्निव ॥३-१८-१४॥
स तैरभिहतः सङ्ख्ये नामर्षयत सौभराट्। शरान्दीप्ताग्निसङ्काशान्मुमोच तनये मम ॥३-१८-१५॥
स शाल्वबाणै राजेन्द्र विद्धो रुक्मिणिनन्दनः। मुमोच बाणं त्वरितो मर्मभेदिनमाहवे ॥३-१८-१६॥
तस्य वर्म विभिद्याशु स बाणो मत्सुतेरितः। बिभेद हृदयं पत्री स पपात मुमोह च ॥३-१८-१७॥
तस्मिन्निपतिते वीरे शाल्वराजे विचेतसि। सम्प्राद्रवन्दानवेन्द्रा दारयन्तो वसुन्धराम् ॥३-१८-१८॥
हाहाकृतमभूत्सैन्यं शाल्वस्य पृथिवीपते। नष्टसञ्ज्ञे निपतिते तदा सौभपतौ नृप ॥३-१८-१९॥
तत उत्थाय कौरव्य प्रतिलभ्य च चेतनाम्। मुमोच बाणं तरसा प्रद्युम्नाय महाबलः ॥३-१८-२०॥
तेन विद्धो महाबाहुः प्रद्युम्नः समरे स्थितः। जत्रुदेशे भृशं वीरो व्यवासीदद्रथे तदा ॥३-१८-२१॥
तं स विद्ध्वा महाराज शाल्वो रुक्मिणिनन्दनम्। ननाद सिंहनादं वै नादेनापूरयन्महीम् ॥३-१८-२२॥
ततो मोहं समापन्ने तनये मम भारत। मुमोच बाणांस्त्वरितः पुनरन्यान्दुरासदान् ॥३-१८-२३॥
स तैरभिहतो बाणैर्बहुभिस्तेन मोहितः। निश्चेष्टः कौरवश्रेष्ठ प्रद्युम्नोऽभूद्रणाजिरे ॥३-१८-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.