03.020
Pancharatra: Defeated by Pradyumna, Shalva retreats with his aeroplane.
वासुदेव उवाच॥
एवमुक्तस्तु कौन्तेय सूतपुत्रस्तदा मृधे। प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ॥३-२०-१॥
न मे भयं रौक्मिणेय सङ्ग्रामे यच्छतो हयान्। युद्धज्ञश्चास्मि वृष्णीनां नात्र किञ्चिदतोऽन्यथा ॥३-२०-२॥
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः। सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ॥३-२०-३॥
त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम्। कश्मलाभिहतो वीर ततोऽहमपयातवान् ॥३-२०-४॥
स त्वं सात्वतमुख्याद्य लब्धसञ्ज्ञो यदृच्छया। पश्य मे हयसंयाने शिक्षां केशवनन्दन ॥३-२०-५॥
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः। वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम् ॥३-२०-६॥
एवमुक्त्वा ततो वीर हयान्सञ्चोद्य सङ्गरे। रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा ॥३-२०-७॥
मण्डलानि विचित्राणि यमकानीतराणि च। सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ॥३-२०-८॥
प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः। उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ॥३-२०-९॥
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम्। दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम् ॥३-२०-१०॥
सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ। चकार नातियत्नेन तदद्भुतमिवाभवत् ॥३-२०-११॥
अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट्। यन्तारमस्य सहसा त्रिभिर्बाणैः समर्पयत् ॥३-२०-१२॥
दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन्। भूय एव महाबाहो प्रययौ हयसंमतः ॥३-२०-१३॥
ततो बाणान्बहुविधान्पुनरेव स सौभराट्। मुमोच तनये वीरे मम रुक्मिणिनन्दने ॥३-२०-१४॥
तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा। रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम् ॥३-२०-१५॥
छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट्। आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ॥३-२०-१६॥
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः। ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः ॥३-२०-१७॥
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः। शिरस्युरसि वक्त्रे च स मुमोह पपात च ॥३-२०-१८॥
तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते। रौक्मिणेयोऽपरं बाणं संदधे शत्रुनाशनम् ॥३-२०-१९॥
तमर्चितं सर्वदाशार्हपूगै; राशीर्भिरर्कज्वलनप्रकाशम्। दृष्ट्वा शरं ज्यामभिनीयमानं; बभूव हाहाकृतमन्तरिक्षम् ॥३-२०-२०॥
ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः। नारदं प्रेषयामासुः श्वसनं च महाबलम् ॥३-२०-२१॥
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम्। नैष वध्यस्त्वया वीर शाल्वराजः कथञ्चन ॥३-२०-२२॥
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे। एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित् ॥३-२०-२३॥
मृत्युरस्य महाबाहो रणे देवकिनन्दनः। कृष्णः सङ्कल्पितो धात्रा तन्न मिथ्या भवेदिति ॥३-२०-२४॥
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम्। सञ्जहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ॥३-२०-२५॥
तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः। व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ॥३-२०-२६॥
स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः। सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ॥३-२०-२७॥