03.021
Pancharatra: After returning from Rajasuya, Krishna goes after Shalva and finds his battleship parked in the middle of an ocean.
वासुदेव उवाच॥
आनर्तनगरं मुक्तं ततोऽहमगमं तदा। महाक्रतौ राजसूये निवृत्ते नृपते तव ॥३-२१-१॥
अपश्यं द्वारकां चाहं महाराज हतत्विषम्। निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् ॥३-२१-२॥
अनभिज्ञेयरूपाणि द्वारकोपवनानि च। दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ॥३-२१-३॥
अस्वस्थनरनारीकमिदं वृष्णिपुरं भृषम्। किमिदं नरशार्दूल श्रोतुमिच्छामहे वयम् ॥३-२१-४॥
एवमुक्तस्तु स मया विस्तरेणेदमब्रवीत्। रोधं मोक्षं च शाल्वेन हार्दिक्यो राजसत्तम ॥३-२१-५॥
ततोऽहं कौरवश्रेष्ठ श्रुत्वा सर्वमशेषतः। विनाशे शाल्वराजस्य तदैवाकरवं मतिम् ॥३-२१-६॥
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम्। राजानमाहुकं चैव तथैवानकदुन्दुभिम् ॥ सर्ववृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा ॥३-२१-७॥
अप्रमादः सदा कार्यो नगरे यादवर्षभाः। शाल्वराजविनाशाय प्रयातं मां निबोधत ॥३-२१-८॥
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति। सशाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः ॥ त्रिसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणी ॥३-२१-९॥
ते मयाश्वासिता वीरा यथावद्भरतर्षभ। सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् ॥३-२१-१०॥
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः। वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसाहुकम् ॥३-२१-११॥
सैन्यसुग्रीवयुक्तेन रथेनानादयन्दिशः। प्रध्माप्य शङ्खप्रवरं पाञ्चजन्यमहं नृप ॥३-२१-१२॥
प्रयातोऽस्मि नरव्याघ्र बलेन महता वृतः। कॢप्तेन चतुरङ्गेण बलेन जितकाशिना ॥३-२१-१३॥
समतीत्य बहून्देशान्गिरींश्च बहुपादपान्। सरांसि सरितश्चैव मार्त्तिकावतमासदम् ॥३-२१-१४॥
तत्राश्रौषं नरव्याघ्र शाल्वं नगरमन्तिकात्। प्रयातं सौभमास्थाय तमहं पृष्ठतोऽन्वयाम् ॥३-२१-१५॥
ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः। समुद्रनाभ्यां शाल्वोऽभूत्सौभमास्थाय शत्रुहन् ॥३-२१-१६॥
स समालोक्य दूरान्मां स्मयन्निव युधिष्ठिर। आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ॥३-२१-१७॥
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः। पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ॥३-२१-१८॥
स चापि पापप्रकृतिर्दैतेयापसदो नृप। मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ॥३-२१-१९॥
सैनिकान्मम सूतं च हयांश्च समवाकिरत्। अचिन्तयन्तस्तु शरान्वयं युध्याम भारत ॥३-२१-२०॥
ततः शतसहस्राणि शराणां नतपर्वणाम्। चिक्षिपुः समरे वीरा मयि शाल्वपदानुगाः ॥३-२१-२१॥
ते हयान्मे रथं चैव तदा दारुकमेव च। छादयामासुरसुरा बाणैर्मर्मविभेदिभिः ॥३-२१-२२॥
न हया न रथो वीर न यन्ता मम दारुकः। अदृश्यन्त शरैश्छन्नास्तथाहं सैनिकाश्च मे ॥३-२१-२३॥
ततोऽहमपि कौरव्य शराणामयुतान्बहून्। अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम् ॥३-२१-२४॥
न तत्र विषयस्त्वासीन्मम सैन्यस्य भारत। खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ॥३-२१-२५॥
ततस्ते प्रेक्षकाः सर्वे रङ्गवाट इव स्थिताः। हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ॥३-२१-२६॥
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे। अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ॥३-२१-२७॥
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत। वध्यतां विशिखैस्तीक्ष्णैः पततां च महार्णवे ॥३-२१-२८॥
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः। नदन्तो भैरवान्नादन्निपतन्ति स्म दानवाः ॥३-२१-२९॥
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम्। जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ॥३-२१-३०॥
तान्दृष्ट्वा पतितांस्तत्र शाल्वः सौभपतिस्तदा। मायायुद्धेन महता योधयामास मां युधि ॥३-२१-३१॥
ततो हुडहुडाः प्रासाः शक्तिशूलपरश्वधाः। पट्टिशाश्च भुशुण्ड्यश्च प्रापतन्ननिशं मयि ॥३-२१-३२॥
तानहं माययैवाशु प्रतिगृह्य व्यनाशयम्। तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ॥३-२१-३३॥
ततोऽभवत्तम इव प्रभातमिव चाभवत्। दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ॥३-२१-३४॥
एवं मायां विकुर्वाणो योधयामास मां रिपुः। विज्ञाय तदहं सर्वं माययैव व्यनाशयम् ॥ यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ॥३-२१-३५॥
ततो व्योम महाराज शतसूर्यमिवाभवत्। शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ॥३-२१-३६॥
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः। ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ॥ ततस्तदस्त्रमस्त्रेण विधूतं शरतूलवत् ॥३-२१-३७॥
तथा तदभवद्युद्धं तुमुलं लोमहर्षणम्। लब्धालोकश्च राजेन्द्र पुनः शत्रुमयोधयम् ॥३-२१-३८॥