03.022
Pancharatra: For a moment even Krishna is overpowered by Shalva’s illusion!
वासुदेव उवाच॥
एवं स पुरुषव्याघ्र शाल्वो राज्ञां महारिपुः। युध्यमानो मया सङ्ख्ये वियदभ्यागमत्पुनः ॥३-२२-१॥
ततः शतघ्नीश्च महागदाश्च; दीप्तांश्च शूलान्मुसलानसींश्च। चिक्षेप रोषान्मयि मन्दबुद्धिः; शाल्वो महाराज जयाभिकाङ्क्षी ॥३-२२-२॥
तानाशुगैरापततोऽहमाशु; निवार्य तूर्णं खगमान्ख एव। द्विधा त्रिधा चाच्छिनमाशु मुक्तै; स्ततोऽन्तरिक्षे निनदो बभूव ॥३-२२-३॥
ततः शतसहस्रेण शराणां नतपर्वणाम्। दारुकं वाजिनश्चैव रथं च समवाकिरत् ॥३-२२-४॥
ततो मामब्रवीद्वीर दारुको विह्वलन्निव। स्थातव्यमिति तिष्ठामि शाल्वबाणप्रपीडितः ॥३-२२-५॥
इति तस्य निशम्याहं सारथेः करुणं वचः। अवेक्षमाणो यन्तारमपश्यं शरपीडितम् ॥३-२२-६॥
न तस्योरसि नो मूर्ध्नि न काये न भुजद्वये। अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः ॥३-२२-७॥
स तु बाणवरोत्पीडाद्विस्रवत्यसृगुल्बणम्। अभिवृष्टो यथा मेघैर्गिरिर्गैरिकधातुमान् ॥३-२२-८॥
अभीषुहस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे। अस्तम्भयं महाबाहो शाल्वबाणप्रपीडितम् ॥३-२२-९॥
अथ मां पुरुषः कश्चिद्द्वारकानिलयोऽब्रवीत्। त्वरितो रथमभ्येत्य सौहृदादिव भारत ॥३-२२-१०॥
आहुकस्य वचो वीर तस्यैव परिचारकः। विषण्णः सन्नकण्ठो वै तन्निबोध युधिष्ठिर ॥३-२२-११॥
द्वारकाधिपतिर्वीर आह त्वामाहुको वचः। केशवेह विजानीष्व यत्त्वां पितृसखोऽब्रवीत् ॥३-२२-१२॥
उपयात्वाद्य शाल्वेन द्वारकां वृष्णिनन्दन। विषक्ते त्वयि दुर्धर्ष हतः शूरसुतो बलात् ॥३-२२-१३॥
तदलं साधु युद्धेन निवर्तस्व जनार्दन। द्वारकामेव रक्षस्व कार्यमेतन्महत्तव ॥३-२२-१४॥
इत्यहं तस्य वचनं श्रुत्वा परमदुर्मनाः। निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा ॥३-२२-१५॥
सात्यकिं बलदेवं च प्रद्युम्नं च महारथम्। जगर्हे मनसा वीर तच्छ्रुत्वा विप्रियं वचः ॥३-२२-१६॥
अहं हि द्वारकायाश्च पितुश्च कुरुनन्दन। तेषु रक्षां समाधाय प्रयातः सौभपातने ॥३-२२-१७॥
बलदेवो महाबाहुः कच्चिज्जीवति शत्रुहा। सात्यकी रौक्मिणेयश्च चारुदेष्णश्च वीर्यवान् ॥ साम्बप्रभृतयश्चैवेत्यहमासं सुदुर्मनाः ॥३-२२-१८॥
एतेषु हि नरव्याघ्र जीवत्सु न कथञ्चन। शक्यः शूरसुतो हन्तुमपि वज्रभृता स्वयम् ॥३-२२-१९॥
हतः शूरसुतो व्यक्तं व्यक्तं ते च परासवः। बलदेवमुखाः सर्वे इति मे निश्चिता मतिः ॥३-२२-२०॥
सोऽहं सर्वविनाशं तं चिन्तयानो मुहुर्मुहुः। सुविह्वलो महाराज पुनः शाल्वमयोधयम् ॥३-२२-२१॥
ततोऽपश्यं महाराज प्रपतन्तमहं तदा। सौभाच्छूरसुतं वीर ततो मां मोह आविशत् ॥३-२२-२२॥
तस्य रूपं प्रपततः पितुर्मम नराधिप। ययातेः क्षीणपुण्यस्य स्वर्गादिव महीतलम् ॥३-२२-२३॥
विशीर्णगलितोष्णीषः प्रकीर्णाम्बरमूर्धजः। प्रपतन्दृश्यते ह स्म क्षीणपुण्य इव ग्रहः ॥३-२२-२४॥
ततः शार्ङ्गं धनुःश्रेष्ठं करात्प्रपतितं मम। मोहात्सन्नश्च कौन्तेय रथोपस्थ उपाविशम् ॥३-२२-२५॥
ततो हाहाकृतं सर्वं सैन्यं मे गतचेतनम्। मां दृष्ट्वा रथनीडस्थं गतासुमिव भारत ॥३-२२-२६॥
प्रसार्य बाहू पततः प्रसार्य चरणावपि। रूपं पितुरपश्यं तच्छकुनेः पततो यथा ॥३-२२-२७॥
तं पतन्तं महाबाहो शूलपट्टिशपाणयः। अभिघ्नन्तो भृशं वीरा मम चेतो व्यकम्पयन् ॥३-२२-२८॥
ततो मुहूर्तात्प्रतिलभ्य सञ्ज्ञा; महं तदा वीर महाविमर्दे। न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि ॥३-२२-२९॥
ततो ममासीन्मनसि मायेयमिति निश्चितम्। प्रबुद्धोऽस्मि ततो भूयः शतशो विकिरञ्शरान् ॥३-२२-३०॥