03.023
Core-Pancharatra: Krishna destroys Soubha and kills Shalva.
वासुदेव उवाच॥
ततोऽहं भरतश्रेष्ठ प्रगृह्य रुचिरं धनुः। शरैरपातयं सौभाच्छिरांसि विबुधद्विषाम् ॥३-२३-१॥
शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः। अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः ॥३-२३-२॥
ततो नादृश्यत तदा सौभं कुरुकुलोद्वह। अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम् ॥३-२३-३॥
अथ दानवसङ्घास्ते विकृताननमूर्धजाः। उदक्रोशन्महाराज विष्ठिते मयि भारत ॥३-२३-४॥
ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे। अयोजयं तद्वधाय ततः शब्द उपारमत् ॥३-२३-५॥
हतास्ते दानवाः सर्वे यैः स शब्द उदीरितः। शरैरादित्यसङ्काशैर्ज्वलितैः शब्दसाधनैः ॥३-२३-६॥
तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत्। शब्दोऽपरो महाराज तत्रापि प्राहरं शरान् ॥३-२३-७॥
एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत। नादयामासुरसुरास्ते चापि निहता मया ॥३-२३-८॥
ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत। सौभं कामगमं वीर मोहयन्मम चक्षुषी ॥३-२३-९॥
ततो लोकान्तकरणो दानवो वानराकृतिः। शिलावर्षेण सहसा महता मां समावृणोत् ॥३-२३-१०॥
सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः। वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ॥३-२३-११॥
ततोऽहं पर्वतचितः सहयः सहसारथिः। अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ॥३-२३-१२॥
ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा। ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः ॥३-२३-१३॥
ततो हाहाकृतं सर्वमभूत्किल विशां पते। द्यौश्च भूमिश्च खं चैवादृश्यमाने तथा मयि ॥३-२३-१४॥
ततो विषण्णमनसो मम राजन्सुहृज्जनाः। रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ॥३-२३-१५॥
द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि। एवं विजितवान्वीर पश्चादश्रौषमच्युत ॥३-२३-१६॥
ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम्। वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ॥३-२३-१७॥
ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः। हया मम महाराज वेपमाना इवाभवन् ॥३-२३-१८॥
मेघजालमिवाकाशे विदार्याभ्युदितं रविम्। दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ॥३-२३-१९॥
ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप। साधु सम्पश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् ॥३-२३-२०॥
अलं कृष्णावमन्यैनं साधु यत्नं समाचर। मार्दवं सखितां चैव शाल्वादद्य व्यपाहर ॥३-२३-२१॥
जहि शाल्वं महाबाहो मैनं जीवय केशव। सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् ॥३-२३-२२॥
न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा। योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ॥३-२३-२३॥
स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो। जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ॥३-२३-२४॥
नैष मार्दवसाध्यो वै मतो नापि सखा तव। येन त्वं योधितो वीर द्वारका चावमर्दिता ॥३-२३-२५॥
एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः। तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ॥३-२३-२६॥
वधाय शाल्वराजस्य सौभस्य च निपातने। दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ॥३-२३-२७॥
ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत्। आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् ॥३-२३-२८॥
यक्षाणां राक्षसानां च दानवानां च संयुगे। राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ॥३-२३-२९॥
क्षुरान्तममलं चक्रं कालान्तकयमोपमम्। अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम् ॥३-२३-३०॥
जहि सौभं स्ववीर्येण ये चात्र रिपवो मम। इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ॥३-२३-३१॥
रूपं सुदर्शनस्यासीदाकाशे पततस्तदा। द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः ॥३-२३-३२॥
तत्समासाद्य नगरं सौभं व्यपगतत्विषम्। मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ॥३-२३-३३॥
द्विधा कृतं ततः सौभं सुदर्शनबलाद्धतम्। महेश्वरशरोद्धूतं पपात त्रिपुरं यथा ॥३-२३-३४॥
तस्मिन्निपतिते सौभे चक्रमागात्करं मम। पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम् ॥३-२३-३५॥
ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे। द्विधा चकार सहसा प्रजज्वाल च तेजसा ॥३-२३-३६॥
तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः। हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ॥३-२३-३७॥
ततोऽहं समवस्थाप्य रथं सौभसमीपतः। शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ॥३-२३-३८॥
तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम्। दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः सम्प्रदुद्रुवुः ॥३-२३-३९॥
एवं निहत्य समरे शाल्वं सौभं निपात्य च। आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् ॥३-२३-४०॥
एतस्मात्कारणाद्राजन्नागमं नागसाह्वयम्। यद्यगां परवीरघ्न न हि जीवेत्सुयोधनः ॥३-२३-४१॥
वैशम्पायन उवाच॥
एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः। आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः ॥३-२३-४२॥
अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम्। राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ॥३-२३-४३॥
सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम्। आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ॥३-२३-४४॥
सैन्यसुग्रीवयुक्तेन रथेनादित्यवर्चसा। द्वारकां प्रययौ कृष्णः समाश्वास्य युधिष्ठिरम् ॥३-२३-४५॥
ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः। द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ॥३-२३-४६॥
धृष्टकेतुः स्वसारं च समादायाथ चेदिराट्। जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ॥३-२३-४७॥
केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा। आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ॥३-२३-४८॥
ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः। विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ॥३-२३-४९॥
समवायः स राजेन्द्र सुमहाद्भुतदर्शनः। आसीन्महात्मनां तेषां काम्यके भरतर्षभ ॥३-२३-५०॥
युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः। शशास पुरुषान्काले रथान्योजयतेति ह ॥३-२३-५१॥