Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.024
Pancharatra: Pandavas depart to forest.
वैशम्पायन उवाच॥
तस्मिन्दशार्हाधिपतौ प्रयाते; युधिष्ठिरो भीमसेनार्जुनौ च। यमौ च कृष्णा च पुरोहितश्च; रथान्महार्हान्परमाश्वयुक्तान् ॥३-२४-१॥
आस्थाय वीराः सहिता वनाय; प्रतस्थिरे भूतपतिप्रकाशाः। हिरण्यनिष्कान्वसनानि गाश्च; प्रदाय शिक्षाक्षरमन्त्रविद्भ्यः ॥३-२४-२॥
प्रेष्याः पुरो विंशतिरात्तशस्त्रा; धनूंषि वर्माणि शरांश्च पीतान्। मौर्वीश्च यन्त्राणि च सायकांश्च; सर्वे समादाय जघन्यमीयुः ॥३-२४-३॥
ततस्तु वासांसि च राजपुत्र्या; धात्र्यश्च दास्यश्च विभूषणं च। तदिन्द्रसेनस्त्वरितं प्रगृह्य; जघन्यमेवोपययौ रथेन ॥३-२४-४॥
ततः कुरुश्रेष्ठमुपेत्य पौराः; प्रदक्षिणं चक्रुरदीनसत्त्वाः। तं ब्राह्मणाश्चाभ्यवदन्प्रसन्ना; मुख्याश्च सर्वे कुरुजाङ्गलानाम् ॥३-२४-५॥
स चापि तानभ्यवदत्प्रसन्नः; सहैव तैर्भ्रातृभिर्धर्मराजः। तस्थौ च तत्राधिपतिर्महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम् ॥३-२४-६॥
पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणामृषभो महात्मा। ते चापि तस्मिन्भरतप्रबर्हे; तदा बभूवुः पितरीव पुत्राः ॥३-२४-७॥
ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः। हा नाथ हा धर्म इति ब्रुवन्तो; ह्रिया च सर्वेऽश्रुमुखा बभूवुः ॥३-२४-८॥
वरः कुरूणामधिपः प्रजानां; पितेव पुत्रानपहाय चास्मान्। पौरानिमाञ्जानपदांश्च सर्वा; न्हित्वा प्रयातः क्व नु धर्मराजः ॥३-२४-९॥
धिग्धार्तराष्ट्रं सुनृशंसबुद्धिं; ससौबलं पापमतिं च कर्णम्। अनर्थमिच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस्तवोग्राः ॥३-२४-१०॥
स्वयं निवेश्याप्रतिमं महात्मा; पुरं महद्देवपुरप्रकाशम्। शतक्रतुप्रस्थममोघकर्मा; हित्वा प्रयातः क्व नु धर्मराजः ॥३-२४-११॥
चकार यामप्रतिमां महात्मा; सभां मयो देवसभाप्रकाशाम्। तां देवगुप्तामिव देवमायां; हित्वा प्रयातः क्व नु धर्मराजः ॥३-२४-१२॥
तान्धर्मकामार्थविदुत्तमौजा; बीभत्सुरुच्चैः सहितानुवाच। आदास्यते वासमिमं निरुष्य; वनेषु राजा द्विषतां यशांसि ॥३-२४-१३॥
द्विजातिमुख्याः सहिताः पृथक्च; भवद्भिरासाद्य तपस्विनश्च। प्रसाद्य धर्मार्थविदश्च वाच्या; यथार्थसिद्धिः परमा भवेन्नः ॥३-२४-१४॥
इत्येवमुक्ते वचनेऽर्जुनेन; ते ब्राह्मणाः सर्ववर्णाश्च राजन्। मुदाभ्यनन्दन्सहिताश्च चक्रुः; प्रदक्षिणं धर्मभृतां वरिष्ठम् ॥३-२४-१५॥
आमन्त्र्य पार्थं च वृकोदरं च; धनञ्जयं याज्ञसेनीं यमौ च। प्रतस्थिरे राष्ट्रमपेतहर्षा; युधिष्ठिरेणानुमता यथास्वम् ॥३-२४-१६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.