03.025
Pancharatra: Pandavas enter Dvaitavana forest.
वैशम्पायन उवाच॥
ततस्तेषु प्रयातेषु कौन्तेयः सत्यसङ्गरः। अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ॥३-२५-१॥
द्वादशेमाः समास्माभिर्वस्तव्यं निर्जने वने। समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ॥३-२५-२॥
बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम्। यत्रेमाः शरदः सर्वाः सुखं प्रतिवसेमहि ॥३-२५-३॥
एवमुक्ते प्रत्युवाच धर्मराजं धनञ्जयः। गुरुवन्मानवगुरुं मानयित्वा मनस्विनम् ॥३-२५-४॥
अर्जुन उवाच॥
भवानेव महर्षीणां वृद्धानां पर्युपासिता। अज्ञातं मानुषे लोके भवतो नास्ति किञ्चन ॥३-२५-५॥
त्वया ह्युपासिता नित्यं ब्राह्मणा भरतर्षभ। द्वैपायनप्रभृतयो नारदश्च महातपाः ॥३-२५-६॥
यः सर्वलोकद्वाराणि नित्यं सञ्चरते वशी। देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ॥३-२५-७॥
सर्वा गतीर्विजानासि ब्राह्मणानां न संशयः। प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥३-२५-८॥
त्वमेव राजञ्जानासि श्रेयःकारणमेव च। यत्रेच्छसि महाराज निवासं तत्र कुर्महे ॥३-२५-९॥
इदं द्वैतवनं नाम सरः पुण्यजनोचितम्। बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ॥३-२५-१०॥
अत्रेमा द्वादश समा विहरेमेति रोचये। यदि तेऽनुमतं राजन्किं वान्यन्मन्यते भवान् ॥३-२५-११॥
युधिष्ठिर उवाच॥
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम्। गच्छाम पुण्यं विख्यातं महद्द्वैतवनं सरः ॥३-२५-१२॥
वैशम्पायन उवाच॥
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः। ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ॥३-२५-१३॥
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः। स्वाध्यायिनो भिक्षवश्च सजपा वनवासिनः ॥३-२५-१४॥
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम्। तपस्विनः सत्यशीलाः शतशः संशितव्रताः ॥३-२५-१५॥
ते यात्वा पाण्डवास्तत्र बहुभिर्ब्राह्मणैः सह। पुण्यं द्वैतवनं रम्यं विविशुर्भरतर्षभाः ॥३-२५-१६॥
तच्छालतालाम्रमधूकनीप; कदम्बसर्जार्जुनकर्णिकारैः। तपात्यये पुष्पधरैरुपेतं; महावनं राष्ट्रपतिर्ददर्श ॥३-२५-१७॥
महाद्रुमाणां शिखरेषु तस्थु; र्मनोरमां वाचमुदीरयन्तः। मयूरदात्यूहचकोरसङ्घा; स्तस्मिन्वने काननकोकिलाश्च ॥३-२५-१८॥
करेणुयूथैः सह यूथपानां; मदोत्कटानामचलप्रभाणाम्। महान्ति यूथानि महाद्विपानां; तस्मिन्वने राष्ट्रपतिर्ददर्श ॥३-२५-१९॥
मनोरमां भोगवतीमुपेत्य; धृतात्मनां चीरजटाधराणाम्। तस्मिन्वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणाननेकान् ॥३-२५-२०॥
ततः स यानादवरुह्य राजा; सभ्रातृकः सजनः काननं तत्। विवेश धर्मात्मवतां वरिष्ठ; स्त्रिविष्टपं शक्र इवामितौजाः ॥३-२५-२१॥
तं सत्यसन्धं सहिताभिपेतु; र्दिदृक्षवश्चारणसिद्धसङ्घाः। वनौकसश्चापि नरेन्द्रसिंहं; मनस्विनं सम्परिवार्य तस्थुः ॥३-२५-२२॥
स तत्र सिद्धानभिवाद्य सर्वा; न्प्रत्यर्चितो राजवद्देववच्च। विवेश सर्वैः सहितो द्विजाग्र्यैः; कृताञ्जलिर्धर्मभृतां वरिष्ठः ॥३-२५-२३॥
स पुण्यशीलः पितृवन्महात्मा; तपस्विभिर्धर्मपरैरुपेत्य। प्रत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्योपविवेश राजा ॥३-२५-२४॥
भीमश्च कृष्णा च धनञ्जयश्च; यमौ च ते चानुचरा नरेन्द्रम्। विमुच्य वाहानवरुह्य सर्वे; तत्रोपतस्थुर्भरतप्रबर्हाः ॥३-२५-२५॥
लतावतानावनतः स पाण्डवै; र्महाद्रुमः पञ्चभिरुग्रधन्विभिः। बभौ निवासोपगतैर्महात्मभि; र्महागिरिर्वारणयूथपैरिव ॥३-२५-२६॥