Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.026
Pancharatra: Markandeya visits Pandavas and advises them not to follow adharma, thinking they are powerful.
वैशम्पायन उवाच॥
तत्काननं प्राप्य नरेन्द्रपुत्राः; सुखोचिता वासमुपेत्य कृच्छ्रम्। विजह्रुरिन्द्रप्रतिमाः शिवेषु; सरस्वतीशालवनेषु तेषु ॥३-२६-१॥
यतींश्च सर्वान्स मुनींश्च राजा; तस्मिन्वने मूलफलैरुदग्रैः। द्विजातिमुख्यानृषभः कुरूणां; सन्तर्पयामास महानुभावः ॥३-२६-२॥
इष्टीश्च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम्। पुरोहितः सर्वसमृद्धतेजा; श्चकार धौम्यः पितृवत्कुरूणाम् ॥३-२६-३॥
अपेत्य राष्ट्राद्वसतां तु तेषा; मृषिः पुराणोऽतिथिराजगाम। तमाश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः श्रीमतां पाण्डवानाम् ॥३-२६-४॥
स सर्वविद्द्रौपदीं प्रेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च। संस्मृत्य रामं मनसा महात्मा; तपस्विमध्येऽस्मयतामितौजाः ॥३-२६-५॥
तं धर्मराजो विमना इवाब्रवी; त्सर्वे ह्रिया सन्ति तपस्विनोऽमी। भवानिदं किं स्मयतीव हृष्ट; स्तपस्विनां पश्यतां मामुदीक्ष्य ॥३-२६-६॥
मार्कण्डेय उवाच॥
न तात हृष्यामि न च स्मयामि; प्रहर्षजो मां भजते न दर्पः। तवापदं त्वद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं स्मरामि ॥३-२६-७॥
स चापि राजा सह लक्ष्मणेन; वने निवासं पितुरेव शासनात्। धन्वी चरन्पार्थ पुरा मयैव; दृष्टो गिरेरृष्यमूकस्य सानौ ॥३-२६-८॥
सहस्रनेत्रप्रतिमो महात्मा; मयस्य जेत नमुचेश्च हन्ता। पितुर्निदेशादनघः स्वधर्मं; वने वासं दाशरथिश्चकार ॥३-२६-९॥
स चापि शक्रस्य समप्रभावो; महानुभावः समरेष्वजेयः। विहाय भोगानचरद्वनेषु; नेशे बलस्येति चरेदधर्मम् ॥३-२६-१०॥
नृपाश्च नाभागभगीरथादयो; महीमिमां सागरान्तां विजित्य। सत्येन तेऽप्यजयंस्तात लोका; न्नेशे बलस्येति चरेदधर्मम् ॥३-२६-११॥
अलर्कमाहुर्नरवर्य सन्तं; सत्यव्रतं काशिकरूषराजम्। विहाय राष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेदधर्मम् ॥३-२६-१२॥
धात्रा विधिर्यो विहितः पुराण; स्तं पूजयन्तो नरवर्य सन्तः। सप्तर्षयः पार्थ दिवि प्रभान्ति; नेशे बलस्येति चरेदधर्मम् ॥३-२६-१३॥
महाबलान्पर्वतकूटमात्रा; न्विषाणिनः पश्य गजान्नरेन्द्र। स्थितान्निदेशे नरवर्य धातु; र्नेशे बलस्येति चरेदधर्मम् ॥३-२६-१४॥
सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद्विहितं विधात्रा। स्वयोनितस्तत्कुरुते प्रभावा; न्नेशे बलस्येति चरेदधर्मम् ॥३-२६-१५॥
सत्येन धर्मेण यथार्हवृत्त्या; ह्रिया तथा सर्वभूतान्यतीत्य। यशश्च तेजश्च तवापि दीप्तं; विभावसोर्भास्करस्येव पार्थ ॥३-२६-१६॥
यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वने वासमिमं निरुष्य। ततः श्रियं तेजसा स्वेन दीप्ता; मादास्यसे पार्थिव कौरवेभ्यः ॥३-२६-१७॥
वैशम्पायन उवाच॥
तमेवमुक्त्वा वचनं महर्षि; स्तपस्विमध्ये सहितं सुहृद्भिः। आमन्त्र्य धौम्यं सहितांश्च पार्थां; स्ततः प्रतस्थे दिशमुत्तरां सः ॥३-२६-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.