03.027
Library: Baka Dalbhya advises Yudhisthira to have Brahmanas always with him for his own welfare.
वैशम्पायन उवाच॥
वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु। अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ॥३-२७-१॥
ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः। ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ॥३-२७-२॥
यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः। आसीदुच्चार्यमाणानां निस्वनो हृदयङ्गमः ॥३-२७-३॥
ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम्। संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ॥३-२७-४॥
अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम्। सन्ध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ॥३-२७-५॥
पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम्। होमवेलां कुरुश्रेष्ठ सम्प्रज्वलितपावकाम् ॥३-२७-६॥
चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः। भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ॥३-२७-७॥
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः। सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः सङ्गतास्त्वया ॥३-२७-८॥
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम। भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ॥३-२७-९॥
ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह। उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ ॥३-२७-१०॥
नाब्राह्मणस्तात चिरं बुभूषे; दिच्छन्निमं लोकममुं च जेतुम्। विनीतधर्मार्थमपेतमोहं; लब्ध्वा द्विजं नुदति नृपः सपत्नान् ॥३-२७-११॥
चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम्। नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ॥३-२७-१२॥
अनूनमासीदसुरस्य कामै; र्वैरोचनेः श्रीरपि चाक्षयासीत्। लब्ध्वा महीं ब्राह्मणसम्प्रयोगा; त्तेष्वाचरन्दुष्टमतो व्यनश्यत् ॥३-२७-१३॥
नाब्राह्मणं भूमिरियं सभूति; र्वर्णं द्वितीयं भजते चिराय। समुद्रनेमिर्नमते तु तस्मै; यं ब्राह्मणः शास्ति नयैर्विनीतः ॥३-२७-१४॥
कुञ्जरस्येव सङ्ग्रामेऽपरिगृह्याङ्कुशग्रहम्। ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम् ॥३-२७-१५॥
ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम्। तौ यदा चरतः सार्धमथ लोकः प्रसीदति ॥३-२७-१६॥
यथा हि सुमहानग्निः कक्षं दहति सानिलः। तथा दहति राजन्यो ब्राह्मणेन समं रिपून् ॥३-२७-१७॥
ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत्। अलब्धस्य च लाभाय लब्धस्य च विवृद्धये ॥३-२७-१८॥
अलब्धलाभाय च लब्धवृद्धये; यथार्हतीर्थप्रतिपादनाय। यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं ब्राह्मणमेव वासय ॥३-२७-१९॥
ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर। तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ॥३-२७-२०॥
ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन्। युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् ॥३-२७-२१॥
द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः। इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ॥३-२७-२२॥
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः। हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ॥३-२७-२३॥
ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः। ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ॥३-२७-२४॥
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः। अजातशत्रुमानर्चुः पुरंदरमिवर्षयः ॥३-२७-२५॥