03.028
Core: Lamentation of Draupadi remembering old prosperous times.
वैशम्पायन उवाच॥
ततो वनगताः पार्थाः सायाह्ने सह कृष्णया। उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः ॥३-२८-१॥
प्रिया च दर्शनीया च पण्डिता च पतिव्रता। ततः कृष्णा धर्मराजमिदं वचनमब्रवीत् ॥३-२८-२॥
न नूनं तस्य पापस्य दुःखमस्मासु किञ्चन। विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ॥३-२८-३॥
यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम्। भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किञ्चन ॥ वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ॥३-२८-४॥
आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः। यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा ॥३-२८-५॥
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः। ईदृशं दुःखमानीय मोदते पापपूरुषः ॥३-२८-६॥
चतुर्णामेव पापानामश्रु वै नापतत्तदा। त्वयि भारत निष्क्रान्ते वनायाजिनवाससि ॥३-२८-७॥
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः। दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च ॥३-२८-८॥
इतेरेषां तु सर्वेषां कुरूणां कुरुसत्तम। दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ॥३-२८-९॥
इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम्। शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् ॥३-२८-१०॥
दान्तं यच्च सभामध्ये आसनं रत्नभूषितम्। दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम् ॥३-२८-११॥
यदपश्यं सभायां त्वां राजभिः परिवारितम्। तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥३-२८-१२॥
या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम्। सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ॥३-२८-१३॥
या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा। दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् ॥३-२८-१४॥
यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः। ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम् ॥३-२८-१५॥
यतीनामगृहाणां ते तथैव गृहमेधिनाम्। दीयते भोजनं राजन्नतीव गुणवत्प्रभो ॥ तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥३-२८-१६॥
यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः। अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ॥३-२८-१७॥
सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः। अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ॥३-२८-१८॥
भीमसेनमिमं चापि दुःखितं वनवासिनम्। ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते ॥३-२८-१९॥
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत। सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥३-२८-२०॥
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥३-२८-२१॥
कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः। त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः ॥३-२८-२२॥
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना। शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः ॥३-२८-२३॥
यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः। यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ॥३-२८-२४॥
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः। ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥३-२८-२५॥
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम्। न च ते वर्धते मन्युस्तेन मुह्यामि भारत ॥३-२८-२६॥
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत्। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥३-२८-२७॥
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः। प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परन्तपः ॥३-२८-२८॥
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः। तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥३-२८-२९॥
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे। नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥३-२८-३०॥
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर। सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥३-२८-३१॥
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः। मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥३-२८-३२॥
नूनं च तव नैवास्ति मन्युर्भरतसत्तम। यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः ॥३-२८-३३॥
न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम्। तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् ॥३-२८-३४॥
यो न दर्शयते तेजः क्षत्रियः काल आगते। सर्वभूतानि तं पार्थ सदा परिभवन्त्युत ॥३-२८-३५॥
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथञ्चन। तेजसैव हि ते शक्या निहन्तुं नात्र संशयः ॥३-२८-३६॥
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति। अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति ॥३-२८-३७॥