Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.033
Core: Draupadi lectures on Chance Vs destiny Vs Striving, and suggests Yudhisthira to strive.
द्रौपद्युवाच॥
नावमन्ये न गर्हे च धर्मं पार्थ कथञ्चन। ईश्वरं कुत एवाहमवमंस्ये प्रजापतिम् ॥३-३३-१॥
आर्ताहं प्रलपामीदमिति मां विद्धि भारत। भूयश्च विलपिष्यामि सुमनास्तन्निबोध मे ॥३-३३-२॥
कर्म खल्विह कर्तव्यं जातेनामित्रकर्शन। अकर्माणो हि जीवन्ति स्थावरा नेतरे जनाः ॥३-३३-३॥
आ मातृस्तनपानाच्च यावच्छय्योपसर्पणम्। जङ्गमाः कर्मणा वृत्तिमाप्नुवन्ति युधिष्ठिर ॥३-३३-४॥
जङ्गमेषु विशेषेण मनुष्या भरतर्षभ। इच्छन्ति कर्मणा वृत्तिमवाप्तुं प्रेत्य चेह च ॥३-३३-५॥
उत्थानमभिजानन्ति सर्वभूतानि भारत। प्रत्यक्षं फलमश्नन्ति कर्मणां लोकसाक्षिकम् ॥३-३३-६॥
पश्यामि स्वं समुत्थानमुपजीवन्ति जन्तवः। अपि धाता विधाता च यथायमुदके बकः ॥३-३३-७॥
स्वकर्म कुरु मा ग्लासीः कर्मणा भव दंशितः। कृत्यं हि योऽभिजानाति सहस्रे नास्ति सोऽस्ति वा ॥३-३३-८॥
तस्य चापि भवेत्कार्यं विवृद्धौ रक्षणे तथा। भक्ष्यमाणो ह्यनावापः क्षीयते हिमवानपि ॥३-३३-९॥
उत्सीदेरन्प्रजाः सर्वा न कुर्युः कर्म चेद्यदि। अपि चाप्यफलं कर्म पश्यामः कुर्वतो जनान् ॥ नान्यथा ह्यभिजानन्ति वृत्तिं लोके कथञ्चन ॥३-३३-१०॥
यश्च दिष्टपरो लोके यश्चायं हठवादकः। उभावपसदावेतौ कर्मबुद्धिः प्रशस्यते ॥३-३३-११॥
यो हि दिष्टमुपासीनो निर्विचेष्टः सुखं स्वपेत्। अवसीदेत्सुदुर्बुद्धिरामो घट इवाम्भसि ॥३-३३-१२॥
तथैव हठबुद्धिर्यः शक्तः कर्मण्यकर्मकृत्। आसीत न चिरं जीवेदनाथ इव दुर्बलः ॥३-३३-१३॥
अकस्मादपि यः कश्चिदर्थं प्राप्नोति पूरुषः। तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥३-३३-१४॥
यच्चापि किञ्चित्पुरुषो दिष्टं नाम लभत्युत। दैवेन विधिना पार्थ तद्दैवमिति निश्चितम् ॥३-३३-१५॥
यत्स्वयं कर्मणा किञ्चित्फलमाप्नोति पूरुषः। प्रत्यक्षं चक्षुषा दृष्टं तत्पौरुषमिति स्मृतम् ॥३-३३-१६॥
स्वभावतः प्रवृत्तोऽन्यः प्राप्नोत्यर्थानकारणात्। तत्स्वभावात्मकं विद्धि फलं पुरुषसत्तम ॥३-३३-१७॥
एवं हठाच्च दैवाच्च स्वभावात्कर्मणस्तथा। यानि प्राप्नोति पुरुषस्तत्फलं पूर्वकर्मणः ॥३-३३-१८॥
धातापि हि स्वकर्मैव तैस्तैर्हेतुभिरीश्वरः। विदधाति विभज्येह फलं पूर्वकृतं नृणाम् ॥३-३३-१९॥
यद्ध्ययं पुरुषः किञ्चित्कुरुते वै शुभाशुभम्। तद्धातृविहितं विद्धि पूर्वकर्मफलोदयम् ॥३-३३-२०॥
कारणं तस्य देहोऽयं धातुः कर्मणि कर्मणि। स यथा प्रेरयत्येनं तथायं कुरुतेऽवशः ॥३-३३-२१॥
तेषु तेषु हि कृत्येषु विनियोक्ता महेश्वरः। सर्वभूतानि कौन्तेय कारयत्यवशान्यपि ॥३-३३-२२॥
मनसार्थान्विनिश्चित्य पश्चात्प्राप्नोति कर्मणा। बुद्धिपूर्वं स्वयं धीरः पुरुषस्तत्र कारणम् ॥३-३३-२३॥
सङ्ख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ। अगारनगराणां हि सिद्धिः पुरुषहैतुकी ॥३-३३-२४॥
तिले तैलं गवि क्षीरं काष्ठे पावकमन्ततः। धिया धीरो विजानीयादुपायं चास्य सिद्धये ॥३-३३-२५॥
ततः प्रवर्तते पश्चात्करणेष्वस्य सिद्धये। तां सिद्धिमुपजीवन्ति कर्मणामिह जन्तवः ॥३-३३-२६॥
कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम्। इदं त्वकुशलेनेति विशेषादुपलभ्यते ॥३-३३-२७॥
इष्टापूर्तफलं न स्यान्न शिष्यो न गुरुर्भवेत्। पुरुषः कर्मसाध्येषु स्याच्चेदयमकारणम् ॥३-३३-२८॥
कर्तृत्वादेव पुरुषः कर्मसिद्धौ प्रशस्यते। असिद्धौ निन्द्यते चापि कर्मनाशः कथं त्विह ॥३-३३-२९॥
सर्वमेव हठेनैके दिष्टेनैके वदन्त्युत। पुरुषप्रयत्नजं केचित्त्रैधमेतन्निरुच्यते ॥३-३३-३०॥
न चैवैतावता कार्यं मन्यन्त इति चापरे। अस्ति सर्वमदृश्यं तु दिष्टं चैव तथा हठः ॥ दृश्यते हि हठाच्चैव दिष्टाच्चार्थस्य सन्ततिः ॥३-३३-३१॥
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मतः। पुरुषः फलमाप्नोति चतुर्थं नात्र कारणम् ॥ कुशलाः प्रतिजानन्ति ये तत्त्वविदुषो जनाः ॥३-३३-३२॥
तथैव धाता भूतानामिष्टानिष्टफलप्रदः। यदि न स्यान्न भूतानां कृपणो नाम कश्चन ॥३-३३-३३॥
यं यमर्थमभिप्रेप्सुः कुरुते कर्म पूरुषः। तत्तत्सफलमेव स्याद्यदि न स्यात्पुराकृतम् ॥३-३३-३४॥
त्रिद्वारामर्थसिद्धिं तु नानुपश्यन्ति ये नराः। तथैवानर्थसिद्धिं च यथा लोकास्तथैव ते ॥३-३३-३५॥
कर्तव्यं त्वेव कर्मेति मनोरेष विनिश्चयः। एकान्तेन ह्यनीहोऽयं पराभवति पूरुषः ॥३-३३-३६॥
कुर्वतो हि भवत्येव प्रायेणेह युधिष्ठिर। एकान्तफलसिद्धिं तु न विन्दत्यलसः क्वचित् ॥३-३३-३७॥
असम्भवे त्वस्य हेतुः प्रायश्चित्तं तु लक्ष्यते। कृते कर्मणि राजेन्द्र तथानृण्यमवाप्यते ॥३-३३-३८॥
अलक्ष्मीराविशत्येनं शयानमलसं नरम्। निःसंशयं फलं लब्ध्वा दक्षो भूतिमुपाश्नुते ॥३-३३-३९॥
अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः। धीरा नराः कर्मरता न तु निःसंशयं क्वचित् ॥३-३३-४०॥
एकान्तेन ह्यनर्थोऽयं वर्ततेऽस्मासु साम्प्रतम्। न तु निःसंशयं न स्यात्त्वयि कर्मण्यवस्थिते ॥३-३३-४१॥
अथ वा सिद्धिरेव स्यान्महिमा तु तथैव ते। वृकोदरस्य बीभत्सोर्भ्रात्रोश्च यमयोरपि ॥३-३३-४२॥
अन्येषां कर्म सफलमस्माकमपि वा पुनः। विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम् ॥३-३३-४३॥
पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्युत। आस्तेऽथ कर्षकस्तूष्णीं पर्जन्यस्तत्र कारणम् ॥३-३३-४४॥
वृष्टिश्चेन्नानुगृह्णीयादनेनास्तत्र कर्षकः। यदन्यः पुरुषः कुर्यात्कृतं तत्सकलं मया ॥३-३३-४५॥
तच्चेदफलमस्माकं नापराधोऽस्ति नः क्वचित्। इति धीरोऽन्ववेक्ष्यैव नात्मानं तत्र गर्हयेत् ॥३-३३-४६॥
कुर्वतो नार्थसिद्धिर्मे भवतीति ह भारत। निर्वेदो नात्र गन्तव्यो द्वावेतौ ह्यस्य कर्मणः ॥ सिद्धिर्वाप्यथ वासिद्धिरप्रवृत्तिरतोऽन्यथा ॥३-३३-४७॥
बहूनां समवाये हि भावानां कर्म सिध्यति। गुणाभावे फलं न्यूनं भवत्यफलमेव वा ॥ अनारम्भे तु न फलं न गुणो दृश्यतेऽच्युत ॥३-३३-४८॥
देशकालावुपायांश्च मङ्गलं स्वस्ति वृद्धये। युनक्ति मेधया धीरो यथाशक्ति यथाबलम् ॥३-३३-४९॥
अप्रमत्तेन तत्कार्यमुपदेष्टा पराक्रमः। भूयिष्ठं कर्मयोगेषु सर्व एव पराक्रमः ॥३-३३-५०॥
यं तु धीरोऽन्ववेक्षेत श्रेयांसं बहुभिर्गुणैः। साम्नैवार्थं ततो लिप्सेत्कर्म चास्मै प्रयोजयेत् ॥३-३३-५१॥
व्यसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर। अपि सिन्धोर्गिरेर्वापि किं पुनर्मर्त्यधर्मिणः ॥३-३३-५२॥
उत्थानयुक्तः सततं परेषामन्तरैषणे। आनृण्यमाप्नोति नरः परस्यात्मन एव च ॥३-३३-५३॥
न चैवात्मावमन्तव्यः पुरुषेण कदाचन। न ह्यात्मपरिभूतस्य भूतिर्भवति भारत ॥३-३३-५४॥
एवं संस्थितिका सिद्धिरियं लोकस्य भारत। चित्रा सिद्धिगतिः प्रोक्ता कालावस्थाविभागतः ॥३-३३-५५॥
ब्राह्मणं मे पिता पूर्वं वासयामास पण्डितम्। सोऽस्मा अर्थमिमं प्राह पित्रे मे भरतर्षभ ॥३-३३-५६॥
नीतिं बृहस्पतिप्रोक्तां भ्रातॄन्मेऽग्राहयत्पुरा। तेषां साङ्कथ्यमश्रौषमहमेतत्तदा गृहे ॥३-३३-५७॥
स मां राजन्कर्मवतीमागतामाह सान्त्वयन्। शुश्रूषमाणामासीनां पितुरङ्के युधिष्ठिर ॥३-३३-५८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.