Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.034
Core: Bhima condemns Yudhisthira’s gentleness and gives his distorted view of Dharma, artha and Kama.
वैशम्पायन उवाच॥
याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः। निःश्वसन्नुपसङ्गम्य क्रुद्धो राजानमब्रवीत् ॥३-३४-१॥
राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम्। धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ॥३-३४-२॥
नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा। अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः ॥३-३४-३॥
गोमायुनेव सिंहानां दुर्बलेन बलीयसाम्। आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् ॥३-३४-४॥
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः। अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे ॥३-३४-५॥
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम्। अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ॥३-३४-६॥
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः। हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ॥३-३४-७॥
भवतः प्रियमित्येवं महद्व्यसनमीदृशम्। धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ॥३-३४-८॥
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्। आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ ॥३-३४-९॥
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि। भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ॥३-३४-१०॥
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः। अवीराचरितां राजन्न बलस्थैर्निषेविताम् ॥३-३४-११॥
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः। न चाहमभिनन्दामि न च माद्रीसुतावुभौ ॥३-३४-१२॥
भवान्धर्मो धर्म इति सततं व्रतकर्शितः। कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ॥३-३४-१३॥
दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम्। अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ॥३-३४-१४॥
स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम्। आनृशंस्यपरो राजन्नानर्थमवबुध्यसे ॥३-३४-१५॥
अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः। अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ॥३-३४-१६॥
तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम्। सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि ॥३-३४-१७॥
अथ वा वयमेवैतान्निहत्य भरतर्षभ। आददीमहि गां सर्वां तथापि श्रेय एव नः ॥३-३४-१८॥
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम्। काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ॥३-३४-१९॥
आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे। अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा ॥३-३४-२०॥
कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा। व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् ॥३-३४-२१॥
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम्। जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ॥३-३४-२२॥
यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः। न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ॥३-३४-२३॥
यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः। रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः ॥३-३४-२४॥
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति। स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ॥३-३४-२५॥
सततं यश्च कामार्थी नेतरावनुतिष्ठति। मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ॥३-३४-२६॥
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्। कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥३-३४-२७॥
तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः। प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ॥३-३४-२८॥
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः। इतरेतरयोनी तौ विद्धि मेघोदधी यथा ॥३-३४-२९॥
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते। स कामश्चित्तसङ्कल्पः शरीरं नास्य विद्यते ॥३-३४-३०॥
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति। अर्थमृच्छति कामार्थी न कामादन्यमृच्छती ॥३-३४-३१॥
न हि कामेन कामोऽन्यः साध्यते फलमेव तत्। उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः ॥३-३४-३२॥
इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा। एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् ॥३-३४-३३॥
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति। स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ॥३-३४-३४॥
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः। प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ॥३-३४-३५॥
तस्य नाशं विनाशं वा जरया मरणेन वा। अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते ॥३-३४-३६॥
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च। विषये वर्तमानानां या प्रीतिरुपजायते ॥ स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ॥३-३४-३७॥
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च। न धर्मपर एव स्यान्न चार्थपरमो नरः ॥ न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ॥३-३४-३८॥
धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत्। अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥३-३४-३९॥
कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत्। वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥३-३४-४०॥
धर्मं चार्थं च कामं च यथावद्वदतां वर। विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ॥३-३४-४१॥
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम्। प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन ॥३-३४-४२॥
तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम्। जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ॥३-३४-४३॥
विदितश्चैव ते धर्मः सततं चरितश्च ते। जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ॥३-३४-४४॥
दानं यज्ञः सतां पूजा वेदधारणमार्जवम्। एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ॥३-३४-४५॥
एष नार्थविहीनेन शक्यो राजन्निषेवितुम्। अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ॥३-३४-४६॥
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते। धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ॥३-३४-४७॥
न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित्। वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना ॥३-३४-४८॥
प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः। तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ॥३-३४-४९॥
भैक्षचर्या न विहिता न च विट्शूद्रजीविका। क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् ॥३-३४-५०॥
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः। उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ॥३-३४-५१॥
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान्। क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः ॥३-३४-५२॥
प्रजापालनसम्भूतं फलं तव न गर्हितम्। एष ते विहितो राजन्धात्रा धर्मः सनातनः ॥३-३४-५३॥
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि। स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ॥३-३४-५४॥
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः। वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् ॥३-३४-५५॥
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन। पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ॥३-३४-५६॥
जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम्। निकृत्या लभते राज्यमाहारमिव शल्यकः ॥३-३४-५७॥
भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः। निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ॥३-३४-५८॥
एवं बलवतः सर्वमिति बुद्ध्वा महीपते। जहि शत्रून्महाबाहो परां निकृतिमास्थितः ॥३-३४-५९॥
न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः। भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ॥३-३४-६०॥
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि। न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव ॥३-३४-६१॥
सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा। न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी ॥३-३४-६२॥
अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता। बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ॥३-३४-६३॥
अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः। न तत्र विपणः कार्यः खरकण्डूयितं हि तत् ॥३-३४-६४॥
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः। बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः ॥३-३४-६५॥
अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः। भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥३-३४-६६॥
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि। नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ॥३-३४-६७॥
सर्वथा संहतैरेव दुर्बलैर्बलवानपि। अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥३-३४-६८॥
यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः। अत्ति चैव तथैव त्वं सवितुः सदृशो भव ॥३-३४-६९॥
एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम्। विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ॥३-३४-७०॥
अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा। इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् ॥३-३४-७१॥
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च। कथायुक्ताः परिषदः पृथग्राजन्समागताः ॥३-३४-७२॥
इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते। समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ॥३-३४-७३॥
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि। अनृतं किञ्चिदुक्तं ते न कामान्नार्थकारणात् ॥३-३४-७४॥
यदेनः कुरुते किञ्चिद्राजा भूमिमवाप्नुवन्। सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ॥३-३४-७५॥
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः। मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः ॥३-३४-७६॥
पौरजानपदाः सर्वे प्रायशः कुरुनन्दन। सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ॥३-३४-७७॥
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा। सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ॥३-३४-७८॥
इति निर्वचनं लोके चिरं चरति भारत। अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते ॥३-३४-७९॥
स भवान्रथमास्थाय सर्वोपकरणान्वितम्। त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् ॥३-३४-८०॥
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्। अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः ॥ आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा ॥३-३४-८१॥
अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा। श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ॥३-३४-८२॥
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम्। स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ॥३-३४-८३॥
न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत। यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ॥३-३४-८४॥
सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च। कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे ॥३-३४-८५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.