Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.035
Pancharatra: Yudhisthira responds to Bhima, accepting his faults, but inability to take action now.
युधिष्ठिर उवाच॥
असंशयं भारत सत्यमेत; द्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि। न त्वा विगर्हे प्रतिकूलमेत; न्ममानयाद्धि व्यसनं व आगात् ॥३-३५-१॥
अहं ह्यक्षानन्वपद्यं जिहीर्ष; न्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात्। तन्मा शठः कितवः प्रत्यदेवी; त्सुयोधनार्थं सुबलस्य पुत्रः ॥३-३५-२॥
महामायः शकुनिः पार्वतीयः; सदा सभायां प्रवपन्नक्षपूगान्। अमायिनं मायया प्रत्यदेवी; त्ततोऽपश्यं वृजिनं भीमसेन ॥३-३५-३॥
अक्षान्हि दृष्ट्वा शकुनेर्यथाव; त्कामानुलोमानयुजो युजश्च। शक्यं नियन्तुमभविष्यदात्मा; मन्युस्तु हन्ति पुरुषस्य धैर्यम् ॥३-३५-४॥
यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः। न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद्भवितव्यमासीत् ॥३-३५-५॥
स नो राजा धृतराष्ट्रस्य पुत्रो; न्यपातयद्व्यसने राज्यमिच्छन्। दास्यं च नोऽगमयद्भीमसेन; यत्राभवच्छरणं द्रौपदी नः ॥३-३५-६॥
त्वं चापि तद्वेत्थ धनञ्जयश्च; पुनर्द्यूतायागतानां सभां नः। यन्माब्रवीद्धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम् ॥३-३५-७॥
वने समा द्वादश राजपुत्र; यथाकामं विदितमजातशत्रो। अथापरं चाविदितं चरेथाः; सर्वैः सह भ्रातृभिश्छद्मगूढः ॥३-३५-८॥
त्वां चेच्छ्रुत्वा तात तथा चरन्त; मवभोत्स्यन्ते भारतानां चराः स्म। अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं; निश्चित्य तत्प्रतिजानीहि पार्थ ॥३-३५-९॥
चरैश्चेन्नोऽविदितः कालमेतं; युक्तो राजन्मोहयित्वा मदीयान्। ब्रवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः ॥३-३५-१०॥
वयं चैवं भ्रातरः सर्व एव; त्वया जिताः कालमपास्य भोगान्। वसेम इत्याह पुरा स राजा; मध्ये कुरूणां स मयोक्तस्तथेति ॥३-३५-११॥
तत्र द्यूतमभवन्नो जघन्यं; तस्मिञ्जिताः प्रव्रजिताश्च सर्वे। इत्थं च देशाननुसञ्चरामो; वनानि कृच्छ्राणि च कृच्छ्ररूपाः ॥३-३५-१२॥
सुयोधनश्चापि न शान्तिमिच्छ; न्भूयः स मन्योर्वशमन्वगच्छत्। उद्योजयामास कुरूंश्च सर्वा; न्ये चास्य केचिद्वशमन्वगच्छन् ॥३-३५-१३॥
तं सन्धिमास्थाय सतां सकाशे; को नाम जह्यादिह राज्यहेतोः। आर्यस्य मन्ये मरणाद्गरीयो; यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् ॥३-३५-१४॥
तदैव चेद्वीरकर्माकरिष्यो; यदा द्यूते परिघं पर्यमृक्षः। बाहू दिधक्षन्वारितः फल्गुनेन; किं दुष्कृतं भीम तदाभविष्यत् ॥३-३५-१५॥
प्रागेव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषमाविदानः। प्राप्तं तु कालं त्वभिपद्य पश्चा; त्किं मामिदानीमतिवेलमात्थ ॥३-३५-१६॥
भूयोऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा। यद्याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत्क्षान्तमिति स्म भीम ॥३-३५-१७॥
न त्वद्य शक्यं भरतप्रवीर; कृत्वा यदुक्तं कुरुवीरमध्ये। कालं प्रतीक्षस्व सुखोदयस्य; पक्तिं फलानामिव बीजवापः ॥३-३५-१८॥
यदा हि पूर्वं निकृतो निकृत्या; वैरं सपुष्पं सफलं विदित्वा। महागुणं हरति हि पौरुषेण; तदा वीरो जीवति जीवलोके ॥३-३५-१९॥
श्रियं च लोके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते। मित्राणि चैनमतिरागाद्भजन्ते; देवा इवेन्द्रमनुजीवन्ति चैनम् ॥३-३५-२०॥
मम प्रतिज्ञां च निबोध सत्यां; वृणे धर्मममृताज्जीविताच्च। राज्यं च पुत्राश्च यशो धनं च; सर्वं न सत्यस्य कलामुपैति ॥३-३५-२१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.