03.038
Pancharatra: Arjuna travels to the north in a day and meets Indra.
वैशम्पायन उवाच॥
कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः। संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ॥३-३८-१॥
विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम्। सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् ॥३-३८-२॥
स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः। धनञ्जयं धर्मराजो रहसीदमुवाच ह ॥३-३८-३॥
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत। धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ॥३-३८-४॥
ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम्। सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः ॥३-३८-५॥
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः। संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते ॥३-३८-६॥
सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा। शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ॥३-३८-७॥
अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा। त्वयि व्यपाश्रयोऽस्माकं त्वयि भारः समाहितः ॥ तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम ॥३-३८-८॥
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया। तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते ॥ तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ॥३-३८-९॥
देवतानां यथाकालं प्रसादं प्रतिपालय। तपसा योजयात्मानमुग्रेण भरतर्षभ ॥३-३८-१०॥
धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः। न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ॥ इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनञ्जय ॥३-३८-११॥
वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम्। तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे ॥३-३८-१२॥
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति। दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ॥३-३८-१३॥
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः। दीक्षितं विधिना तेन यतवाक्कायमानसम् ॥ अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः ॥३-३८-१४॥
निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरंदरम्। धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी ॥३-३८-१५॥
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान्। हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः ॥३-३८-१६॥
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः। वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च ॥३-३८-१७॥
तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम्। अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च ॥ क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि ॥३-३८-१८॥
तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम्। मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत् ॥३-३८-१९॥
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनञ्जय। तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ॥३-३८-२०॥
मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात्। ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका ॥३-३८-२१॥
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे। रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः ॥३-३८-२२॥
नैव नः पार्थ भोगेषु न धने नोत जीविते। तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ॥३-३८-२३॥
त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते। जीवितं मरणं चैव राज्यमैश्वर्यमेव च ॥ आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव ॥३-३८-२४॥
नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम्। स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत ॥ दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः ॥३-३८-२५॥
ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः। प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ॥३-३८-२६॥
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः। युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ॥३-३८-२७॥
सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः। मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः ॥३-३८-२८॥
हिमवन्तमतिक्रम्य गन्धमादनमेव च। अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ॥३-३८-२९॥
इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनञ्जयः। अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा ॥३-३८-३०॥
ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम्। ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् ॥३-३८-३१॥
सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः। कस्त्वं तातेह सम्प्राप्तो धनुष्मान्कवची शरी ॥ निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः ॥३-३८-३२॥
नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः। विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ॥३-३८-३३॥
नेहास्ति धनुषा कार्यं न सङ्ग्रामेण कर्हिचित्। निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम् ॥३-३८-३४॥
इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम्। तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् ॥ न चैनं चालयामास धैर्यात्सुदृढनिश्चयम् ॥३-३८-३५॥
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव। वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ॥३-३८-३६॥
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः। प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः ॥३-३८-३७॥
ईप्सितो ह्येष मे कामो वरं चैनं प्रयच्छ मे। त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम् ॥३-३८-३८॥
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव। इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनञ्जय ॥ कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम् ॥३-३८-३९॥
एवमुक्तः प्रत्युवाच सहस्राक्षं धनञ्जयः। न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम् ॥३-३८-४०॥
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप। भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च ॥ अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ॥३-३८-४१॥
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम्। सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ॥३-३८-४२॥
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम्। तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः ॥३-३८-४३॥
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः। दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ॥३-३८-४४॥
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः। अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः ॥३-३८-४५॥