03.039
Pancharatra: Arjuna’s penance.
जनमेजय उवाच॥
भगवञ्श्रोतुमिच्छामि पार्थस्याक्लिष्टकर्मणः। विस्तरेण कथामेतां यथास्त्राण्युपलब्धवान् ॥३-३९-१॥
कथं स पुरुषव्याघ्रो दीर्घबाहुर्धनञ्जयः। वनं प्रविष्टस्तेजस्वी निर्मनुष्यमभीतवत् ॥३-३९-२॥
किं च तेन कृतं तत्र वसता ब्रह्मवित्तम। कथं च भगवान्स्थाणुर्देवराजश्च तोषितः ॥३-३९-३॥
एतदिच्छाम्यहं श्रोतुं त्वत्प्रसादाद्द्विजोत्तम। त्वं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह ॥३-३९-४॥
अत्यद्भुतं महाप्राज्ञ रोमहर्षणमर्जुनः। भवेन सह सङ्ग्रामं चकाराप्रतिमं किल ॥ पुरा प्रहरतां श्रेष्ठः सङ्ग्रामेष्वपराजितः ॥३-३९-५॥
यच्छ्रुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात्। शूराणामपि पार्थानां हृदयानि चकम्पिरे ॥३-३९-६॥
यद्यच्च कृतवानन्यत्पार्थस्तदखिलं वद। न ह्यस्य निन्दितं जिष्णोः सुसूक्ष्ममपि लक्षये ॥ चरितं तस्य शूरस्य तन्मे सर्वं प्रकीर्तय ॥३-३९-७॥
वैशम्पायन उवाच॥
कथयिष्यामि ते तात कथामेतां महात्मनः। दिव्यां कौरवशार्दूल महतीमद्भुतोपमाम् ॥३-३९-८॥
गात्रसंस्पर्शसम्बन्धं त्र्यम्बकेण सहानघ। पार्थस्य देवदेवेन शृणु सम्यक्समागमम् ॥३-३९-९॥
युधिष्ठिरनियोगात्स जगामामितविक्रमः। शक्रं सुरेश्वरं द्रष्टुं देवदेवं च शङ्करम् ॥३-३९-१०॥
दिव्यं तद्धनुरादाय खड्गं च पुरुषर्षभः। महाबलो महाबाहुरर्जुनः कार्यसिद्धये ॥ दिशं ह्युदीचीं कौरव्यो हिमवच्छिखरं प्रति ॥३-३९-११॥
ऐन्द्रिः स्थिरमना राजन्सर्वलोकमहारथः। त्वरया परया युक्तस्तपसे धृतनिश्चयः ॥ वनं कण्टकितं घोरमेक एवान्वपद्यत ॥३-३९-१२॥
नानापुष्पफलोपेतं नानापक्षिनिषेवितम्। नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥३-३९-१३॥
ततः प्रयाते कौन्तेये वनं मानुषवर्जितम्। शङ्खानां पटहानां च शब्दः समभवद्दिवि ॥३-३९-१४॥
पुष्पवर्षं च सुमहन्निपपात महीतले। मेघजालं च विततं छादयामास सर्वतः ॥३-३९-१५॥
अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः। शुशुभे हिमवत्पृष्ठे वसमानोऽर्जुनस्तदा ॥३-३९-१६॥
तत्रापश्यद्द्रुमान्फुल्लान्विहगैर्वल्गु नादितान्। नदीश्च बहुलावर्ता नीलवैडूर्यसंनिभाः ॥३-३९-१७॥
हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा। पुंस्कोकिलरुताश्चैव क्रौञ्चबर्हिणनादिताः ॥३-३९-१८॥
मनोहरवनोपेतास्तस्मिन्नतिरथोऽर्जुनः। पुण्यशीतामलजलाः पश्यन्प्रीतमनाभवत् ॥३-३९-१९॥
रमणीये वनोद्देशे रममाणोऽर्जुनस्तदा। तपस्युग्रे वर्तमान उग्रतेजा महामनाः ॥३-३९-२०॥
दर्भचीरं निवस्याथ दण्डाजिनविभूषितः। पूर्णे पूर्णे त्रिरात्रे तु मासमेकं फलाशनः ॥ द्विगुणेनैव कालेन द्वितीयं मासमत्यगात् ॥३-३९-२१॥
तृतीयमपि मासं स पक्षेणाहारमाचरन्। शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान् ॥३-३९-२२॥
चतुर्थे त्वथ सम्प्राप्ते मासि पूर्णे ततः परम्। वायुभक्षो महाबाहुरभवत्पाण्डुनन्दनः ॥ ऊर्ध्वबाहुर्निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः ॥३-३९-२३॥
सदोपस्पर्शनाच्चास्य बभूवुरमितौजसः। विद्युदम्भोरुहनिभा जटास्तस्य महात्मनः ॥३-३९-२४॥
ततो महर्षयः सर्वे जग्मुर्देवं पिनाकिनम्। शितिकण्ठं महाभागं प्रणिपत्य प्रसाद्य च ॥सर्वे निवेदयामासुः कर्म तत्फल्गुनस्य ह ॥३-३९-२५॥
एष पार्थो महातेजा हिमवत्पृष्ठमाश्रितः। उग्रे तपसि दुष्पारे स्थितो धूमाययन्दिशः ॥३-३९-२६॥
तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम्। सन्तापयति नः सर्वानसौ साधु निवार्यताम् ॥३-३९-२७॥
महेश्वर उवाच॥
शीघ्रं गच्छत संहृष्टा यथागतमतन्द्रिताः। अहमस्य विजानामि सङ्कल्पं मनसि स्थितम् ॥३-३९-२८॥
नास्य स्वर्गस्पृहा काचिन्नैश्वर्यस्य न चायुषः। यत्त्वस्य काङ्क्षितं सर्वं तत्करिष्येऽहमद्य वै ॥३-३९-२९॥
वैशम्पायन उवाच॥
ते श्रुत्व शर्ववचनमृषयः सत्यवादिनः। प्रहृष्टमनसो जग्मुर्यथास्वं पुनराश्रमान् ॥३-३९-३०॥