Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.037
Core-Pancharatra: Yudhisthira learns prati-smriti from Vyasa and Pandavas move from Dvaita to Kamyaka forest.
वैशम्पायन उवाच॥
भीमसेनवचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः। निःश्वस्य पुरुषव्याघ्रः सम्प्रदध्यौ परन्तपः ॥३-३७-१॥
स मुहूर्तमिव ध्यात्वा विनिश्चित्येतिकृत्यताम्। भीमसेनमिदं वाक्यमपदान्तरमब्रवीत् ॥३-३७-२॥
एवमेतन्महाबाहो यथा वदसि भारत। इदमन्यत्समाधत्स्व वाक्यं मे वाक्यकोविद ॥३-३७-३॥
महापापानि कर्माणि यानि केवलसाहसात्। आरभ्यन्ते भीमसेन व्यथन्ते तानि भारत ॥३-३७-४॥
सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते। सिध्यन्त्यर्था महाबाहो दैवं चात्र प्रदक्षिणम् ॥३-३७-५॥
त्वं तु केवलचापल्याद्बलदर्पोच्छ्रितः स्वयम्। आरब्धव्यमिदं कर्म मन्यसे शृणु तत्र मे ॥३-३७-६॥
भूरिश्रवाः शलश्चैव जलसन्धश्च वीर्यवान्। भीष्मो द्रोणश्च कर्णश्च द्रोणपुत्रश्च वीर्यवान् ॥३-३७-७॥
धार्तराष्ट्रा दुराधर्षा दुर्योधनपुरोगमाः। सर्व एव कृतास्त्राश्च सततं चाततायिनः ॥३-३७-८॥
राजानः पार्थिवाश्चैव येऽस्माभिरुपतापिताः। संश्रिताः कौरवं पक्षं जातस्नेहाश्च साम्प्रतम् ॥३-३७-९॥
दुर्योधनहिते युक्ता न तथास्मासु भारत। पूर्णकोशा बलोपेताः प्रयतिष्यन्ति रक्षणे ॥३-३७-१०॥
सर्वे कौरवसैन्यस्य सपुत्रामात्यसैनिकाः। संविभक्ता हि मात्राभिर्भोगैरपि च सर्वशः ॥३-३७-११॥
दुर्योधनेन ते वीरा मानिताश्च विशेषतः। प्राणांस्त्यक्ष्यन्ति सङ्ग्रामे इति मे निश्चिता मतिः ॥३-३७-१२॥
समा यद्यपि भीष्मस्य वृत्तिरस्मासु तेषु च। द्रोणस्य च महाबाहो कृपस्य च महात्मनः ॥३-३७-१३॥
अवश्यं राजपिण्डस्तैर्निर्वेश्य इति मे मतिः। तस्मात्त्यक्ष्यन्ति सङ्ग्रामे प्राणानपि सुदुस्त्यजान् ॥३-३७-१४॥
सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः। अजेयाश्चेति मे बुद्धिरपि देवैः सवासवैः ॥३-३७-१५॥
अमर्षी नित्यसंहृष्टस्तत्र कर्णो महारथः। सर्वास्त्रविदनाधृष्य अभेद्यकवचावृतः ॥३-३७-१६॥
अनिर्जित्य रणे सर्वानेतान्पुरुषसत्तमान्। अशक्यो ह्यसहायेन हन्तुं दुर्योधनस्त्वया ॥३-३७-१७॥
न निद्रामधिगच्छामि चिन्तयानो वृकोदर। अति सर्वान्धनुर्ग्राहान्सूतपुत्रस्य लाघवम् ॥३-३७-१८॥
एतद्वचनमाज्ञाय भीमसेनोऽत्यमर्षणः। बभूव विमनास्त्रस्तो न चैवोवाच किञ्चन ॥३-३७-१९॥
तयोः संवदतोरेवं तदा पाण्डवयोर्द्वयोः। आजगाम महायोगी व्यासः सत्यवतीसुतः ॥३-३७-२०॥
सोऽभिगम्य यथान्यायं पाण्डवैः प्रतिपूजितः। युधिष्ठिरमिदं वाक्यमुवाच वदतां वरः ॥३-३७-२१॥
युधिष्ठिर महाबाहो वेद्मि ते हृदि मानसम्। मनीषया ततः क्षिप्रमागतोऽस्मि नरर्षभ ॥३-३७-२२॥
भीष्माद्द्रोणात्कृपात्कर्णाद्द्रोणपुत्राच्च भारत। यत्ते भयममित्रघ्न हृदि सम्परिवर्तते ॥३-३७-२३॥
तत्तेऽहं नाशयिष्यामि विधिदृष्टेन हेतुना। तच्छ्रुत्वा धृतिमास्थाय कर्मणा प्रतिपादय ॥३-३७-२४॥
तत एकान्तमुन्नीय पाराशर्यो युधिष्ठिरम्। अब्रवीदुपपन्नार्थमिदं वाक्यविशारदः ॥३-३७-२५॥
श्रेयसस्ते परः कालः प्राप्तो भरतसत्तम। येनाभिभविता शत्रून्रणे पार्थो धनञ्जयः ॥३-३७-२६॥
गृहाणेमां मया प्रोक्तां सिद्धिं मूर्तिमतीमिव। विद्यां प्रतिस्मृतिं नाम प्रपन्नाय ब्रवीमि ते ॥ यामवाप्य महाबाहुरर्जुनः साधयिष्यति ॥३-३७-२७॥
अस्त्रहेतोर्महेन्द्रं च रुद्रं चैवाभिगच्छतु। वरुणं च धनेशं च धर्मराजं च पाण्डव ॥ शक्तो ह्येष सुरान्द्रष्टुं तपसा विक्रमेण च ॥३-३७-२८॥
ऋषिरेष महातेजा नारायणसहायवान्। पुराणः शाश्वतो देवो विष्णोरंशः सनातनः ॥३-३७-२९॥
अस्त्राणीन्द्राच्च रुद्राच्च लोकपालेभ्य एव च। समादाय महाबाहुर्महत्कर्म करिष्यति ॥३-३७-३०॥
वनादस्माच्च कौन्तेय वनमन्यद्विचिन्त्यताम्। निवासार्थाय यद्युक्तं भवेद्वः पृथिवीपते ॥३-३७-३१॥
एकत्र चिरवासो हि न प्रीतिजननो भवेत्। तापसानां च शान्तानां भवेदुद्वेगकारकः ॥३-३७-३२॥
मृगाणामुपयोगश्च वीरुदोषधिसङ्क्षयः। बिभर्षि हि बहून्विप्रान्वेदवेदाङ्गपारगान् ॥३-३७-३३॥
एवमुक्त्वा प्रपन्नाय शुचये भगवान्प्रभुः। प्रोवाच योगतत्त्वज्ञो योगविद्यामनुत्तमाम् ॥३-३७-३४॥
धर्मराज्ञे तदा धीमान्व्यासः सत्यवतीसुतः। अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत ॥३-३७-३५॥
युधिष्ठिरस्तु धर्मात्मा तद्ब्रह्म मनसा यतः। धारयामास मेधावी काले काले समभ्यसन् ॥३-३७-३६॥
स व्यासवाक्यमुदितो वनाद्द्वैतवनात्ततः। ययौ सरस्वतीतीरे काम्यकं नाम काननम् ॥३-३७-३७॥
तमन्वयुर्महाराज शिक्षाक्षरविदस्तथा। ब्राह्मणास्तपसा युक्ता देवेन्द्रमृषयो यथा ॥३-३७-३८॥
ततः काम्यकमासाद्य पुनस्ते भरतर्षभाः। न्यविशन्त महात्मानः सामात्याः सपदानुगाः ॥३-३७-३९॥
तत्र ते न्यवसन्राजन्कञ्चित्कालं मनस्विनः। धनुर्वेदपरा वीराः शृण्वाना वेदमुत्तमम् ॥३-३७-४०॥
चरन्तो मृगयां नित्यं शुद्धैर्बाणैर्मृगार्थिनः। पितृदैवतविप्रेभ्यो निर्वपन्तो यथाविधि ॥३-३७-४१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.