03.040
Pancharatra: Arjuna’s encounter with Shiva in the guise of a hunter.
वैशम्पायन उवाच॥
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु। पिनाकपाणिर्भगवान्सर्वपापहरो हरः ॥३-४०-१॥
कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम्। विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ॥३-४०-२॥
श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान्। निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ॥३-४०-३॥
देव्या सहोमया श्रीमान्समानव्रतवेषया। नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ॥३-४०-४॥
किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः। अशोभत तदा राजन्स देवोऽतीव भारत ॥३-४०-५॥
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा। नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ॥३-४०-६॥
स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः। मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ॥३-४०-७॥
वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम्। हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ॥३-४०-८॥
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान्। सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ॥३-४०-९॥
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम्। तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ॥३-४०-१०॥
तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम्। किरातरूपी सहसा वारयामास शङ्करः ॥३-४०-११॥
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः। अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ॥३-४०-१२॥
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः। प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ॥३-४०-१३॥
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः। मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा ॥३-४०-१४॥
यथाशनिविनिष्पेषो वज्रस्येव च पर्वते। तथा तयोः संनिपातः शरयोरभवत्तदा ॥३-४०-१५॥
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव। ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् ॥३-४०-१६॥
ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम्। किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा ॥ तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव ॥३-४०-१७॥
को भवानटते शून्ये वने स्त्रीगणसंवृतः। न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ ॥३-४०-१८॥
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः। मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः ॥३-४०-१९॥
कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे। न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि ॥ तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय ॥३-४०-२०॥
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव। उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् ॥३-४०-२१॥
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः। ममैव च प्रहारेण जीविताद्व्यवरोपितः ॥३-४०-२२॥
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः। अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ॥३-४०-२३॥
स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव। घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ॥३-४०-२४॥
ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः। शरैराशीविषाकारैस्ततक्षाते परस्परम् ॥३-४०-२५॥
ततोऽर्जुनः शरवर्षं किराते समवासृजत्। तत्प्रसन्नेन मनसा प्रतिजग्राह शङ्करः ॥३-४०-२६॥
मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक्। अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः ॥३-४०-२७॥
स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनञ्जयः। परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत् ॥३-४०-२८॥
अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः। गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ॥३-४०-२९॥
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरेश्वरः। विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ॥३-४०-३०॥
न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः। शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ॥३-४०-३१॥
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः। अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ॥३-४०-३२॥
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः। व्यसृजच्छतधा राजन्मयूखानिव भास्करः ॥३-४०-३३॥
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः। शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ॥३-४०-३४॥
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा। वित्रासं च जगामाथ तं दृष्ट्वा शरसङ्क्षयम् ॥३-४०-३५॥
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम्। पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ॥३-४०-३६॥
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः। अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः ॥३-४०-३७॥
अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम्। नयामि दण्डधारस्य यमस्य सदनं प्रति ॥३-४०-३८॥
सम्प्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा। तदप्यस्य धनुर्दिव्यं जग्रास गिरिगोचरः ॥३-४०-३९॥
ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत। युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ॥३-४०-४०॥
तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि। मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः ॥ तस्य मूर्धानमासाद्य पफालासिवरो हि सः ॥३-४०-४१॥
ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः। यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः ॥३-४०-४२॥
किरातरूपी भगवांस्ततः पार्थो महाबलः। मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे ॥ प्रजहार दुराधर्षे किरातसमरूपिणि ॥३-४०-४३॥
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः। किरातरूपी भगवानर्दयामास फल्गुनम् ॥३-४०-४४॥
ततश्चटचटाशब्दः सुघोरः समजायत। पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः ॥३-४०-४५॥
सुमुहूर्तं महद्युद्धमासीत्तल्लोमहर्षणम्। भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ॥३-४०-४६॥
जहाराथ ततो जिष्णुः किरातमुरसा बली। पाण्डवं च विचेष्टन्तं किरातोऽप्यहनद्बलात् ॥३-४०-४७॥
तयोर्भुजविनिष्पेषात्सङ्घर्षेणोरसोस्तथा। समजायत गात्रेषु पावकोऽङ्गारधूमवान् ॥३-४०-४८॥
तत एनं महादेवः पीड्य गात्रैः सुपीडितम्। तेजसा व्याक्रमद्रोषाच्चेतस्तस्य विमोहयन् ॥३-४०-४९॥
ततो निपीडितैर्गात्रैः पिण्डीकृत इवाबभौ। फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ॥३-४०-५०॥
निरुच्छ्वासोऽभवच्चैव संनिरुद्धो महात्मना। ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः ॥३-४०-५१॥
भगवानुवाच॥
भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते। शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ॥३-४०-५२॥
समं तेजश्च वीर्यं च ममाद्य तव चानघ। प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ ॥३-४०-५३॥
ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान्। विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ॥३-४०-५४॥
वैशम्पायन उवाच॥
ततो देवं महादेवं गिरिशं शूलपाणिनम्। ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ॥३-४०-५५॥
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च। प्रसादयामास हरं पार्थः परपुरञ्जयः ॥३-४०-५६॥
अर्जुन उवाच॥
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन। व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शङ्कर ॥३-४०-५७॥
भवगद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम्। दयितं तव देवेश तापसालयमुत्तमम् ॥३-४०-५८॥
प्रसादये त्वां भगवन्सर्वभूतनमस्कृत। न मे स्यादपराधोऽयं महादेवातिसाहसात् ॥३-४०-५९॥
कृतो मया यदज्ञानाद्विमर्दोऽयं त्वया सह। शरणं सम्प्रपन्नाय तत्क्षमस्वाद्य शङ्कर ॥३-४०-६०॥
वैशम्पायन उवाच॥
तमुवाच महातेजाः प्रहस्य वृषभध्वजः। प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ॥३-४०-६१॥