03.041
Pancharatra: Girisha grants Arjuna the weapon known as Pashupata, also called brahmashira.
भगवानुवाच॥
नरस्त्वं पूर्वदेहे वै नारायणसहायवान्। बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ॥३-४१-१॥
त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे। युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ॥३-४१-२॥
शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम्। प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥३-४१-३॥
एतत्तदेव गाण्डीवं तव पार्थ करोचितम्। मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम ॥ तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ ॥३-४१-४॥
प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम। गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ॥३-४१-५॥
न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद। दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम ॥३-४१-६॥
अर्जुन उवाच॥
भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज। कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो ॥३-४१-७॥
यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम्। युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ॥३-४१-८॥
दहेयं येन सङ्ग्रामे दानवान्राक्षसांस्तथा। भूतानि च पिशाचांश्च गन्धर्वानथ पन्नगान् ॥३-४१-९॥
यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः। शराश्चाशीविषाकाराः सम्भवन्त्यनुमन्त्रिताः ॥३-४१-१०॥
युध्येयं येन भीष्मेण द्रोणेन च कृपेण च। सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ॥३-४१-११॥
एष मे प्रथमः कामो भगवन्भगनेत्रहन्। त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा ॥३-४१-१२॥
भगवानुवाच॥
ददानि तेऽस्त्रं दयितमहं पाशुपतं महत्। समर्थो धारणे मोक्षे संहारे चापि पाण्डव ॥३-४१-१३॥
नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट्। वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः ॥३-४१-१४॥
न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित्। जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ॥३-४१-१५॥
अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे। मनसा चक्षुषा वाचा धनुषा च निपात्यते ॥३-४१-१६॥
वैशम्पायन उवाच॥
तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः। उपसङ्गृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् ॥३-४१-१७॥
ततस्त्वध्यापयामास सरहस्य निवर्तनम्। तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ॥३-४१-१८॥
उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम्। प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ॥३-४१-१९॥
ततश्चचाल पृथिवी सपर्वतवनद्रुमा। ससागरवनोद्देशा सग्रामनगराकरा ॥३-४१-२०॥
शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः। तस्मिन्मुहूर्ते सम्प्राप्ते निर्घातश्च महानभूत् ॥३-४१-२१॥
अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः। मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ॥३-४१-२२॥
स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः। यत्किञ्चिदशुभं देहे तत्सर्वं नाशमेयिवत् ॥३-४१-२३॥
स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः। प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत ॥३-४१-२४॥
ततः प्रभुस्त्रिदिवनिवासिनां वशी; महामतिर्गिरिश उमापतिः शिवः। धनुर्महद्दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम् ॥३-४१-२५॥
ततः शुभं गिरिवरमीश्वरस्तदा; सहोमया सिततटसानुकन्दरम्। विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः ॥३-४१-२६॥