03.043
Pancharatra: Matali takes Arjuna towards Amaravati, the capital of Indra.
वैशम्पायन उवाच॥
गतेषु लोकपालेषु पार्थः शत्रुनिबर्हणः। चिन्तयामास राजेन्द्र देवराजरथागमम् ॥३-४३-१॥
ततश्चिन्तयमानस्य गुडाकेशस्य धीमतः। रथो मातलिसंयुक्त आजगाम महाप्रभः ॥३-४३-२॥
नभो वितिमिरं कुर्वञ्जलदान्पाटयन्निव। दिशः सम्पूरयन्नादैर्महामेघरवोपमैः ॥३-४३-३॥
असयः शक्तयो भीमा गदाश्चोग्रप्रदर्शनाः। दिव्यप्रभावाः प्रासाश्च विद्युतश्च महाप्रभाः ॥३-४३-४॥
तथैवाशनयस्तत्र चक्रयुक्ता हुडागुडाः। वायुस्फोटाः सनिर्घाता बर्हिमेघनिभस्वनाः ॥३-४३-५॥
तत्र नागा महाकाया ज्वलितास्याः सुदारुणाः। सिताभ्रकूटप्रतिमाः संहताश्च यथोपलाः ॥३-४३-६॥
दश वाजिसहस्राणि हरीणां वातरंहसाम्। वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम् ॥३-४३-७॥
तत्रापश्यन्महानीलं वैजयन्तं महाप्रभम्। ध्वजमिन्दीवरश्यामं वंशं कनकभूषणम् ॥३-४३-८॥
तस्मिन्रथे स्थितं सूतं तप्तहेमविभूषितम्। दृष्ट्वा पार्थो महाबाहुर्देवमेवान्वतर्कयत् ॥३-४३-९॥
तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः। संनतः प्रश्रितो भूत्वा वाक्यमर्जुनमब्रवीत् ॥३-४३-१०॥
भो भो शक्रात्मज श्रीमाञ्शक्रस्त्वां द्रष्टुमिच्छति। आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संमतम् ॥३-४३-११॥
आह माममरश्रेष्ठः पिता तव शतक्रतुः। कुन्तीसुतमिह प्राप्तं पश्यन्तु त्रिदशालयाः ॥३-४३-१२॥
एष शक्रः परिवृतो देवैरृषिगणैस्तथा। गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते ॥३-४३-१३॥
अस्माल्लोकाद्देवलोकं पाकशासनशासनात्। आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि ॥३-४३-१४॥
अर्जुन उवाच॥
मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम्। राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् ॥३-४३-१५॥
पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः। दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम् ॥३-४३-१६॥
नातप्ततपसा शक्य एष दिव्यो महारथः। द्रष्टुं वाप्यथ वा स्प्रष्टुमारोढुं कुत एव तु ॥३-४३-१७॥
त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि। पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा ॥३-४३-१८॥
वैशम्पायन उवाच॥
तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः। आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः ॥३-४३-१९॥
ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः। जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः ॥३-४३-२०॥
ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि। मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे ॥३-४३-२१॥
साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम्। त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् ॥३-४३-२२॥
त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः। स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः ॥३-४३-२३॥
अद्रिराज महाशैल मुनिसंश्रय तीर्थवन्। गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि ॥३-४३-२४॥
तव सानूनि कुञ्जाश्च नद्यः प्रस्रवणानि च। तीर्थानि च सुपुण्यानि मया दृष्टान्यनेकशः ॥३-४३-२५॥
एवमुक्त्वार्जुनः शैलमामन्त्र्य परवीरहा। आरुरोह रथं दिव्यं द्योतयन्निव भास्करः ॥३-४३-२६॥
स तेनादित्यरूपेण दिव्येनाद्भुतकर्मणा। ऊर्ध्वमाचक्रमे धीमान्प्रहृष्टः कुरुनन्दनः ॥३-४३-२७॥
सोऽदर्शनपथं यात्वा मर्त्यानां भूमिचारिणाम्। ददर्शाद्भुतरूपाणि विमानानि सहस्रशः ॥३-४३-२८॥
न तत्र सूर्यः सोमो वा द्योतते न च पावकः। स्वयैव प्रभया तत्र द्योतन्ते पुण्यलब्धया ॥३-४३-२९॥
तारारूपाणि यानीह दृश्यन्ते द्युतिमन्ति वै। दीपवद्विप्रकृष्टत्वादणूनि सुमहान्त्यपि ॥३-४३-३०॥
तानि तत्र प्रभास्वन्ति रूपवन्ति च पाण्डवः। ददर्श स्वेषु धिष्ण्येषु दीप्तिमन्ति स्वयार्चिषा ॥३-४३-३१॥
तत्र राजर्षयः सिद्धा वीराश्च निहता युधि। तपसा च जितस्वर्गाः सम्पेतुः शतसङ्घशः ॥३-४३-३२॥
गन्धर्वाणां सहस्राणि सूर्यज्वलनतेजसाम्। गुह्यकानामृषीणां च तथैवाप्सरसां गणाः ॥३-४३-३३॥
लोकानात्मप्रभान्पश्यन्फल्गुनो विस्मयान्वितः। पप्रच्छ मातलिं प्रीत्या स चाप्येनमुवाच ह ॥३-४३-३४॥
एते सुकृतिनः पार्थ स्वेषु धिष्ण्येष्ववस्थिताः। यान्दृष्टवानसि विभो तारारूपाणि भूतले ॥३-४३-३५॥
ततोऽपश्यत्स्थितं द्वारि सितं वैजयिनं गजम्। ऐरावतं चतुर्दन्तं कैलासमिव शृङ्गिणम् ॥३-४३-३६॥
स सिद्धमार्गमाक्रम्य कुरुपाण्डवसत्तमः। व्यरोचत यथा पूर्वं मान्धाता पार्थिवोत्तमः ॥३-४३-३७॥
अतिचक्राम लोकान्स राज्ञां राजीवलोचनः। ततो ददर्श शक्रस्य पुरीं ताममरावतीम् ॥३-४३-३८॥