03.042
Pancharatra: Varuna, Yama, Kubera and Indra appear in front of Arjuna and bestow their weapons.
वैशम्पायन उवाच॥
तस्य सम्पश्यतस्त्वेव पिनाकी वृषभध्वजः। जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान् ॥३-४२-१॥
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा। मया साक्षान्महादेवो दृष्ट इत्येव भारत ॥३-४२-२॥
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः। पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना ॥३-४२-३॥
कृतार्थं चावगच्छामि परमात्मानमात्मना। शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् ॥३-४२-४॥
ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः। यादोगणवृतः श्रीमानाजगाम जलेश्वरः ॥३-४२-५॥
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः। वरुणो यादसां भर्ता वशी तं देशमागमत् ॥३-४२-६॥
अथ जाम्बूनदवपुर्विमानेन महार्चिषा। कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः ॥३-४२-७॥
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः। धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः ॥३-४२-८॥
तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान्। मूर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः ॥३-४२-९॥
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत्। वैवस्वतो धर्मराजो विमानेनावभासयन् ॥३-४२-१०॥
त्रीँल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान्। द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते ॥३-४२-११॥
भानुमन्ति विचित्राणि शिखराणि महागिरेः। समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम् ॥३-४२-१२॥
ततो मुहूर्ताद्भगवानैरावतशिरोगतः। आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः ॥३-४२-१३॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि। शुशुभे तारकाराजः सितमभ्रमिवास्थितः ॥३-४२-१४॥
संस्तूयमानो गन्धर्वैरृषिभिश्च तपोधनैः। शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः ॥३-४२-१५॥
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम्। यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः ॥३-४२-१६॥
अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान्। दृष्टिं ते वितरामोऽद्य भवानर्हो हि दर्शनम् ॥३-४२-१७॥
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः। नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः ॥ त्वं वासवसमुद्भूतो महावीर्यपराक्रमः ॥३-४२-१८॥
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम्। दानवाश्च महावीर्या ये मनुष्यत्वमागताः ॥ निवातकवचाश्चैव संसाध्याः कुरुनन्दन ॥३-४२-१९॥
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः। कर्णः स सुमहावीर्यस्त्वया वध्यो धनञ्जय ॥३-४२-२०॥
अंशाश्च क्षितिसम्प्राप्ता देवगन्धर्वरक्षसाम्। तया निपातिता युद्धे स्वकर्मफलनिर्जिताम् ॥ गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन ॥३-४२-२१॥
अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन। त्वया साक्षान्महादेवस्तोषितो हि महामृधे ॥ लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ॥३-४२-२२॥
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम्। अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि ॥३-४२-२३॥
प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः। समन्त्रं सोपचारं च समोक्षं सनिवर्तनम् ॥३-४२-२४॥
ततो जलधरश्यामो वरुणो यादसां पतिः। पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः ॥३-४२-२५॥
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः। पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः ॥३-४२-२६॥
मया समुद्यतान्पाशान्वारुणाननिवारणान्। प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् ॥३-४२-२७॥
एभिस्तदा मया वीर सङ्ग्रामे तारकामये। दैतेयानां सहस्राणि संयतानि महात्मनाम् ॥३-४२-२८॥
तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान्। गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः ॥३-४२-२९॥
अनेन त्वं यदास्त्रेण सङ्ग्रामे विचरिष्यसि। तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः ॥३-४२-३०॥
ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत। दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च ॥३-४२-३१॥
सव्यसाचिन्महाबाहो पूर्वदेव सनातन। सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः ॥३-४२-३२॥
मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं मम। ओजस्तेजोद्युतिहरं प्रस्वापनमरातिहन् ॥३-४२-३३॥
ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः। कौबेरमपि जग्राह दिव्यमस्त्रं महाबलः ॥३-४२-३४॥
ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम्। सान्त्वयञ्श्लक्ष्णया वाचा मेघदुन्दुभिनिस्वनः ॥३-४२-३५॥
कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः। परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः ॥३-४२-३६॥
देवकार्यं हि सुमहत्त्वया कार्यमरिंदम। आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते ॥३-४२-३७॥
रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम्। तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव ॥३-४२-३८॥
तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि। जगाम विस्मयं धीमान्कुन्तीपुत्रो धनञ्जयः ॥३-४२-३९॥
ततोऽर्जुनो महातेजा लोकपालान्समागतान्। पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि ॥३-४२-४०॥
ततः प्रतिययुर्देवाः प्रतिपूज्य धनञ्जयम्। यथागतेन विबुधाः सर्वे काममनोजवाः ॥३-४२-४१॥
ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः। कृतार्थमिव चात्मानं स मेने पूर्णमानसः ॥३-४२-४२॥