03.044
Core: Indra welcomes Arjuna and the description of Indra’s splendour.
वैशम्पायन उवाच॥
स ददर्श पुरीं रम्यां सिद्धचारणसेविताम्। सर्वर्तुकुसुमैः पुण्यैः पादपैरुपशोभिताम् ॥३-४४-१॥
तत्र सौगन्धिकानां स द्रुमाणां पुण्यगन्धिनाम्। उपवीज्यमानो मिश्रेण वायुना पुण्यगन्धिना ॥३-४४-२॥
नन्दनं च वनं दिव्यमप्सरोगणसेवितम्। ददर्श दिव्यकुसुमैराह्वयद्भिरिव द्रुमैः ॥३-४४-३॥
नातप्ततपसा शक्यो द्रष्टुं नानाहिताग्निना। स लोकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः ॥३-४४-४॥
नायज्वभिर्नानृतकैर्न वेदश्रुतिवर्जितैः। नानाप्लुताङ्गैस्तीर्थेषु यज्ञदानबहिष्कृतैः ॥३-४४-५॥
नापि यज्ञहनैः क्षुद्रैर्द्रष्टुं शक्यः कथञ्चन। पानपैर्गुरुतल्पैश्च मांसादैर्वा दुरात्मभिः ॥३-४४-६॥
स तद्दिव्यं वनं पश्यन्दिव्यगीतनिनादितम्। प्रविवेश महाबाहुः शक्रस्य दयितां पुरीम् ॥३-४४-७॥
तत्र देवविमानानि कामगानि सहस्रशः। संस्थितान्यभियातानि ददर्शायुतशस्तदा ॥३-४४-८॥
संस्तूयमानो गन्धर्वैरप्सरोभिश्च पाण्डवः। पुष्पगन्धवहैः पुण्यैर्वायुभिश्चानुवीजितः ॥३-४४-९॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। हृष्टाः सम्पूजयामासुः पार्थमक्लिष्टकारिणम् ॥३-४४-१०॥
आशीर्वादैः स्तूयमानो दिव्यवादित्रनिस्वनैः। प्रतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम् ॥३-४४-११॥
नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम्। इन्द्राज्ञया ययौ पार्थः स्तूयमानः समन्ततः ॥३-४४-१२॥
तत्र साध्यास्तथा विश्वे मरुतोऽथाश्विनावपि। आदित्या वसवो रुद्रास्तथा ब्रह्मर्षयोऽमलाः ॥३-४४-१३॥
राजर्षयश्च बहवो दिलीपप्रमुखा नृपाः। तुम्बुरुर्नारदश्चैव गन्धर्वौ च हहाहुहू ॥३-४४-१४॥
तान्सर्वान्स समागम्य विधिवत्कुरुनन्दनः। ततोऽपश्यद्देवराजं शतक्रतुमरिंदमम् ॥३-४४-१५॥
ततः पार्थो महाबाहुरवतीर्य रथोत्तमात्। ददर्श साक्षाद्देवेन्द्रं पितरं पाकशासनम् ॥३-४४-१६॥
पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा। दिव्यगन्धाधिवासेन व्यजनेन विधूयता ॥३-४४-१७॥
विश्वावसुप्रभृतिभिर्गन्धर्वैः स्तुतिवन्दनैः। स्तूयमानं द्विजाग्र्यैश्च ऋग्यजुःसामसंस्तवैः ॥३-४४-१८॥
ततोऽभिगम्य कौन्तेयः शिरसाभ्यनमद्बली। स चैनमनुवृत्ताभ्यां भुजाभ्यां प्रत्यगृह्णत ॥३-४४-१९॥
ततः शक्रासने पुण्ये देवराजर्षिपूजिते। शक्रः पाणौ गृहीत्वैनमुपावेशयदन्तिके ॥३-४४-२०॥
मूर्ध्नि चैनमुपाघ्राय देवेन्द्रः परवीरहा। अङ्कमारोपयामास प्रश्रयावनतं तदा ॥३-४४-२१॥
सहस्राक्षनियोगात्स पार्थः शक्रासनं तदा। अध्यक्रामदमेयात्मा द्वितीय इव वासवः ॥३-४४-२२॥
ततः प्रेम्णा वृत्रशत्रुरर्जुनस्य शुभं मुखम्। पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन् ॥३-४४-२३॥
परिमार्जमानः शनकैर्बाहू चास्यायतौ शुभौ। ज्याशरक्षेपकठिनौ स्तम्भाविव हिरण्मयौ ॥३-४४-२४॥
वज्रग्रहणचिह्नेन करेण बलसूदनः। मुहुर्मुहुर्वज्रधरो बाहू संस्फालयञ्शनैः ॥३-४४-२५॥
स्मयन्निव गुडाकेशं प्रेक्षमाणः सहस्रदृक्। हर्षेणोत्फुल्लनयनो न चातृप्यत वृत्रहा ॥३-४४-२६॥
एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम्। सूर्याचन्द्रमसौ व्योम्नि चतुर्दश्यामिवोदितौ ॥३-४४-२७॥
तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना। गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशला गीतसामसु ॥३-४४-२८॥
घृताची मेनका रम्भा पूर्वचित्तिः स्वयम्प्रभा। उर्वशी मिश्रकेशी च डुण्डुर्गौरी वरूथिनी ॥३-४४-२९॥
गोपाली सहजन्या च कुम्भयोनिः प्रजागरा। चित्रसेना चित्रलेखा सहा च मधुरस्वरा ॥३-४४-३०॥
एताश्चान्याश्च ननृतुस्तत्र तत्र वराङ्गनाः। चित्तप्रमथने युक्ताः सिद्धानां पद्मलोचनाः ॥३-४४-३१॥
महाकटितटश्रोण्यः कम्पमानैः पयोधरैः। कटाक्षहावमाधुर्यैश्चेतोबुद्धिमनोहराः ॥३-४४-३२॥