Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.045
Core-Pancharatra: Arjuna trains for 5 years under the guidance of Chitrasena.
वैशम्पायन उवाच॥
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम्। शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ॥३-४५-१॥
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम्। प्रवेशयामासुरथो पुरंदरनिवेशनम् ॥३-४५-२॥
एवं सम्पूजितो जिष्णुरुवास भवने पितुः। उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ॥३-४५-३॥
शक्रस्य हस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम्। अशनीश्च महानादा मेघबर्हिणलक्षणाः ॥३-४५-४॥
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः। पुरंदरनियोगाच्च पञ्चाब्दमवसत्सुखी ॥३-४५-५॥
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते। नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥३-४५-६॥
वादित्रं देवविहितं नृलोके यन्न विद्यते। तदर्जयस्व कौन्तेय श्रेयो वै ते भविष्यति ॥३-४५-७॥
सखायं प्रददौ चास्य चित्रसेनं पुरंदरः। स तेन सह सङ्गम्य रेमे पार्थो निरामयः ॥३-४५-८॥
कदाचिदटमानस्तु महर्षिरुत लोमशः। जगाम शक्रभवनं पुरंदरदिदृक्षया ॥३-४५-९॥
स समेत्य नमस्कृत्य देवराजं महामुनिः। ददर्शार्धासनगतं पाण्डवं वासवस्य ह ॥३-४५-१०॥
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे। निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ॥३-४५-११॥
तस्य दृष्ट्वाभवद्बुद्धिः पार्थमिन्द्रासने स्थितम्। कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् ॥३-४५-१२॥
किं त्वस्य सुकृतं कर्म लोका वा के विनिर्जिताः। य एवमुपसम्प्राप्तः स्थानं देवनमस्कृतम् ॥३-४५-१३॥
तस्य विज्ञाय सङ्कल्पं शक्रो वृत्रनिषूदनः। लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ॥३-४५-१४॥
ब्रह्मर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम्। नायं केवलमर्त्यो वै क्षत्रियत्वमुपागतः ॥३-४५-१५॥
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः। अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ॥३-४५-१६॥
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम्। शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् ॥३-४५-१७॥
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ। ताविमावभिजानीहि हृषीकेशधनञ्जयौ ॥३-४५-१८॥
यन्न शक्यं सुरैर्द्रष्टुमृषिभिर्वा महात्मभिः। तदाश्रमपदं पुण्यं बदरी नाम विश्रुतम् ॥३-४५-१९॥
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च। यतः प्रववृते गङ्गा सिद्धचारणसेविता ॥३-४५-२०॥
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती। भूमेर्भारावतरणं महावीर्यौ करिष्यतः ॥३-४५-२१॥
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति। विप्रियेषु स्थितास्माकं वरदानेन मोहिताः ॥३-४५-२२॥
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः। देवान्न गणयन्ते च तथा दत्तवरा हि ते ॥३-४५-२३॥
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः। सर्वे देवनिकाया हि नालं योधयितुं स्म तान् ॥३-४५-२४॥
योऽसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः। कपिलो नाम देवोऽसौ भगवानजितो हरिः ॥३-४५-२५॥
येन पूर्वं महात्मानः खनमाना रसातलम्। दर्शनादेव निहताः सगरस्यात्मजा विभो ॥३-४५-२६॥
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम। पार्थेन च महायुद्धे समेताभ्यामसंशयम् ॥३-४५-२७॥
अयं तेषां समस्तानां शक्तः प्रतिसमासने। तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् ॥३-४५-२८॥
भवांश्चास्मन्नियोगेन यातु तावन्महीतलम्। काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ॥३-४५-२९॥
स वाच्यो मम संदेशाद्धर्मात्मा सत्यसङ्गरः। नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति ॥३-४५-३०॥
नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे। भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ॥३-४५-३१॥
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः। नृत्तवादित्रगीतानां दिव्यानां पारमेयिवान् ॥३-४५-३२॥
भवानपि विविक्तानि तीर्थानि मनुजेश्वर। भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिंदम ॥३-४५-३३॥
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः। राज्यं भोक्ष्यसि राजेन्द्र सुखी विगतकल्मषः ॥३-४५-३४॥
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतले। त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ॥३-४५-३५॥
गिरिदुर्गेषु हि सदा देशेषु विषमेषु च। वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षेत्सदा भवान् ॥३-४५-३६॥
स तथेति प्रतिज्ञाय लोमशः सुमहातपाः। काम्यकं वनमुद्दिश्य समुपायान्महीतलम् ॥३-४५-३७॥
ददर्श तत्र कौन्तेयं धर्मराजमरिंदमम्। तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् ॥३-४५-३८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.