Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.047
Pancharatra: How Yudhisthira sustained themselves along with thousands of Brahmanas in the forest.
जनमेजय उवाच॥
यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने। प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम् ॥३-४७-१॥
कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम्। दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान् ॥३-४७-२॥
किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम्। वानेयमथ वा कृष्टमेतदाख्यातु मे भवान् ॥३-४७-३॥
वैशम्पायन उवाच॥
वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान्। ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः ॥३-४७-४॥
तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने। अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा ॥३-४७-५॥
ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम्। दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः ॥३-४७-६॥
रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान्। बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत् ॥३-४७-७॥
न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत। कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः ॥३-४७-८॥
पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान्। पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः ॥३-४७-९॥
पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी। मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा ॥३-४७-१०॥
प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीमथ वाप्युदीचीम्। धनुर्धरा मांसहेतोर्मृगाणां; क्षयं चक्रुर्नित्यमेवोपगम्य ॥३-४७-११॥
तथा तेषां वसतां काम्यके वै; विहीनानामर्जुनेनोत्सुकानाम्। पञ्चैव वर्षाणि तदा व्यतीयु; रधीयतां जपतां जुह्वतां च ॥३-४७-१२॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.