03.048
Pancharatra: Sanjaya narrates Krishna’s visit to the Pandavas at Kamyaka forest.
वैशम्पायन उवाच॥
सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः। अब्रवीत्सञ्जयं सूतमामन्त्र्य भरतर्षभ ॥३-४८-१॥
देवपुत्रौ महाभागौ देवराजसमद्युती। नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ ॥३-४८-२॥
दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ। शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ ॥३-४८-३॥
भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि। स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ ॥ न शेषमिह पश्यामि तदा सैन्यस्य सञ्जय ॥३-४८-४॥
तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ। द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ ॥३-४८-५॥
वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः। युधि सत्याभिसन्धेन वासुदेवेन रक्षिताः ॥ प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम् ॥३-४८-६॥
रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन। न शक्यः सहितुं वेगः पर्वतैरपि संयुगे ॥३-४८-७॥
तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः। शैक्यया वीरघातिन्या गदया विचरिष्यति ॥३-४८-८॥
तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः। गदावेगं च भीमस्य नालं सोढुं नराधिपाः ॥३-४८-९॥
ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः। स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा ॥३-४८-१०॥
सञ्जय उवाच॥
व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः। समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः ॥३-४८-११॥
श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः। त्वरितः काम्यके पार्थान्समभावयदच्युतः ॥३-४८-१२॥
द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः। विराटो धृष्टकेतुश्च केकयाश्च महारथाः ॥३-४८-१३॥
तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान्। चारेण विदितं सर्वं तन्मया वेदितं च ते ॥३-४८-१४॥
समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः। सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः ॥३-४८-१५॥
अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान्। कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम् ॥३-४८-१६॥
या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह। राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा ॥३-४८-१७॥
यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान्। सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान् ॥३-४८-१८॥
सागरानूपगांश्चैव ये च पत्तनवासिनः। सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः ॥३-४८-१९॥
पश्चिमानि च राज्यानि शतशः सागरान्तिकान्। पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान् ॥३-४८-२०॥
हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा। जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान् ॥३-४८-२१॥
एते चान्ये च बहवो ये च ते भरतर्षभ। आगतानहमद्राक्षं यज्ञे ते परिवेषकान् ॥३-४८-२२॥
सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी। आदाय जीवितं तेषामाहरिष्यामि तामहम् ॥३-४८-२३॥
रामेण सह कौरव्य भीमार्जुनयमैस्तथा। अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च ॥ धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च ॥३-४८-२४॥
दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत। दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते ॥३-४८-२५॥
ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन्। धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम् ॥३-४८-२६॥
अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे। शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च ॥३-४८-२७॥
प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन। अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि ॥३-४८-२८॥
वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव। प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम् ॥३-४८-२९॥
तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः। धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा ॥ केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम् ॥३-४८-३०॥
पाञ्चालीं चाहुरक्लिष्टां वासुदेवस्य शृण्वतः। दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम् ॥ प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि ॥३-४८-३१॥
ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा। मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः ॥३-४८-३२॥
पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा। उत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले ॥३-४८-३३॥
तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले। क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत् ॥३-४८-३४॥
परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षिता। तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम् ॥३-४८-३५॥
एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाः। सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः ॥३-४८-३६॥
ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात्। पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः ॥३-४८-३७॥
रामश्च कृष्णश्च धनञ्जयश्च; प्रद्युम्नसाम्बौ युयुधानभीमौ। माद्रीसुतौ केकयराजपुत्राः; पाञ्चालपुत्राः सह धर्मराज्ञा ॥३-४८-३८॥
एतान्सर्वाँल्लोकवीरानजेया; न्महात्मनः सानुबन्धान्ससैन्यान्। को जीवितार्थी समरे प्रत्युदीया; त्क्रुद्धान्सिंहान्केसरिणो यथैव ॥३-४८-३९॥
धृतराष्ट्र उवाच॥
यन्माब्रवीद्विदुरो द्यूतकाले; त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र। ध्रुवं कुरूणामयमन्तकालो; महाभयो भविता शोणितौघः ॥३-४८-४०॥
मnye तथा तद्भवितेति सूत; यथा क्षत्ता प्राह वचः पुरा माम्। असंशयं भविता युद्धमेत; द्गते काले पाण्डवानां यथोक्तम् ॥३-४८-४१॥