03.046
Pancharatra: Conversation between Dhritarastra and Sanjaya on glories of Arjuna.
जनमेजय उवाच॥
अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः। धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत् ॥३-४६-१॥
वैशम्पायन उवाच॥
शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः। द्वैपायनादृषिश्रेष्ठात्सञ्जयं वाक्यमब्रवीत् ॥३-४६-२॥
श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः। कच्चित्तवापि विदितं यथातथ्येन सारथे ॥३-४६-३॥
प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः। मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति ॥३-४६-४॥
यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः। त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ॥३-४६-५॥
अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान्। कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः ॥३-४६-६॥
मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः। येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम् ॥३-४६-७॥
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः। अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी ॥३-४६-८॥
द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे। महान्स्यात्संशयो लोके न तु पश्यामि नो जयम् ॥३-४६-९॥
घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः। अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः ॥३-४६-१०॥
भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम्। सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः ॥३-४६-११॥
अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः। वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा ॥३-४६-१२॥
न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते। मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः ॥३-४६-१३॥
त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत्। जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ ॥३-४६-१४॥
शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि सञ्जय। न तु कुर्युः शराः शेषमस्तास्तात किरीटिना ॥३-४६-१५॥
यथा हि किरणा भानोस्तपन्तीह चराचरम्। तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान् ॥३-४६-१६॥
अपि वा रथघोषेण भयार्ता सव्यसाचिनः। प्रतिभाति विदीर्णेव सर्वतो भारती चमूः ॥३-४६-१७॥
यदुद्वपन्प्रवपंश्चैव बाणा; न्स्थाताततायी समरे किरीटी। सृष्टोऽन्तकः सर्वहरो विधात्रा; भवेद्यथा तद्वदपारणीयः ॥३-४६-१८॥
सञ्जय उवाच॥
यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति। सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते ॥३-४६-१९॥
मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः। दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम् ॥३-४६-२०॥
दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः। कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः ॥३-४६-२१॥
श्रुतं हि ते महाराज यथा पार्थेन संयुगे। एकादशतनुः स्थाणुर्धनुषा परितोषितः ॥३-४६-२२॥
कैरातं वेषमास्थाय योधयामास फल्गुनम्। जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम् ॥३-४६-२३॥
तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम्। अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम् ॥३-४६-२४॥
नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात्। साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि ॥३-४६-२५॥
महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान्। कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान् ॥३-४६-२६॥
आसादितमिदं घोरं तुमुलं लोमहर्षणम्। द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान् ॥३-४६-२७॥
यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत्। दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ ॥३-४६-२८॥
ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया। त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः ॥३-४६-२९॥
सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः। सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः ॥३-४६-३०॥
मnye मन्युसमुद्धूताः पुत्राणां तव संयुगे। अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः ॥३-४६-३१॥
धृतराष्ट्र उवाच॥
किं कृतं सूत कर्णेन वदता परुषं वचः। पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता ॥३-४६-३२॥
अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः। येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते ॥३-४६-३३॥
ममापि वचनं सूत न शुश्रूषति मन्दभाक्। दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम् ॥३-४६-३४॥
ये चास्य सचिवा मन्दाः कर्णसौबलकादयः। तेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः ॥३-४६-३५॥
स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा। निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः ॥३-४६-३६॥
पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः। दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि ॥३-४६-३७॥
यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः। हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम् ॥३-४६-३८॥
इदं च सुमहच्चित्रमर्जुनस्येह सञ्जय। महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः ॥३-४६-३९॥
प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा। फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च ॥३-४६-४०॥
सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः। क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते ॥३-४६-४१॥