Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.050
Core: Swan acts as a bridge between Nala and Damayanti and romance is in the air!
बृहदश्व उवाच॥
आसीद्राजा नलो नाम वीरसेनसुतो बली। उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ॥३-५०-१॥
अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा। उपर्युपरि सर्वेषामादित्य इव तेजसा ॥३-५०-२॥
ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः। अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥३-५०-३॥
ईप्सितो वरनारीणामुदारः संयतेन्द्रियः। रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥३-५०-४॥
तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः। शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ॥३-५०-५॥
स प्रजार्थे परं यत्नमकरोत्सुसमाहितः। तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ॥३-५०-६॥
तं स भीमः प्रजाकामस्तोषयामास धर्मवित्। महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ॥३-५०-७॥
तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ। कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥३-५०-८॥
दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्। उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ॥३-५०-९॥
दमयन्ती तु रूपेण तेजसा यशसा श्रिया। सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥३-५०-१०॥
अथ तां वयसि प्राप्ते दासीनां समलङ्कृतम्। शतं सखीनां च तथा पर्युपास्ते शचीमिव ॥३-५०-११॥
तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता। सखीमध्येऽनवद्याङ्गी विद्युत्सौदामिनी यथा ॥ अतीव रूपसम्पन्ना श्रीरिवायतलोचना ॥३-५०-१२॥
न देवेषु न यक्षेषु तादृग्रूपवती क्वचित्। मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता ॥ चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥३-५०-१३॥
नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि। कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥३-५०-१४॥
तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्। नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥३-५०-१५॥
तयोरदृष्टकामोऽभूच्छृण्वतोः सततं गुणान्। अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः ॥३-५०-१६॥
अशक्नुवन्नलः कामं तदा धारयितुं हृदा। अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥३-५०-१७॥
स ददर्श तदा हंसाञ्जातरूपपरिच्छदान्। वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥३-५०-१८॥
ततोऽन्तरिक्षगो वाचं व्याजहार तदा नलम्। न हन्तव्योऽस्मि ते राजन्करिष्यामि हि ते प्रियम् ॥३-५०-१९॥
दमयन्तीसकाशे त्वां कथयिष्यामि नैषध। यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥३-५०-२०॥
एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः। ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ॥३-५०-२१॥
विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके। निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ॥३-५०-२२॥
सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता। हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥३-५०-२३॥
अथ हंसा विससृपुः सर्वतः प्रमदावने। एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन् ॥३-५०-२४॥
दमयन्ती तु यं हंसं समुपाधावदन्तिके। स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ॥३-५०-२५॥
दमयन्ति नलो नाम निषधेषु महीपतिः। अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥३-५०-२६॥
तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि। सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ॥३-५०-२७॥
वयं हि देवगन्धर्वमनुष्योरगराक्षसान्। दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ॥३-५०-२८॥
त्वं चापि रत्नं नारीणां नरेषु च नलो वरः। विशिष्टाया विशिष्टेन सङ्गमो गुणवान्भवेत् ॥३-५०-२९॥
एवमुक्ता तु हंसेन दमयन्ती विशां पते। अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद ॥३-५०-३०॥
तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते। पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ॥३-५०-३१॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.