Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.049
Core-Pancharatra: Bhima and Yudhisthira conversation.
जनमेजय उवाच॥
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि। युधिष्ठिरप्रभृतयः किमकुर्वन्त पाण्डवाः ॥३-४९-१॥
वैशम्पायन उवाच॥
अस्त्रहेतोर्गते पार्थे शक्रलोकं महात्मनि। न्यवसन्कृष्णया सार्धं काम्यके पुरुषर्षभाः ॥३-४९-२॥
ततः कदाचिदेकान्ते विविक्त इव शाद्वले। दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया ॥ धनञ्जयं शोचमानाः साश्रुकण्ठाः सुदुःखिताः ॥३-४९-३॥
तद्वियोगाद्धि तान्सर्वाञ्शोकः समभिपुप्लुवे। धनञ्जयवियोगाच्च राज्यनाशाच्च दुःखिताः ॥३-४९-४॥
अथ भीमो महाबाहुर्युधिष्ठिरमभाषत। निदेशात्ते महाराज गतोऽसौ पुरुषर्षभः ॥ अर्जुनः पाण्डुपुत्राणां यस्मिन्प्राणाः प्रतिष्ठिताः ॥३-४९-५॥
यस्मिन्विनष्टे पाञ्चालाः सह पुत्रैस्तथा वयम्। सात्यकिर्वासुदेवश्च विनश्येयुरसंशयम् ॥३-४९-६॥
योऽसौ गच्छति तेजस्वी बहून्क्लेशानचिन्तयन्। भवन्नियोगाद्बीभत्सुस्ततो दुःखतरं नु किम् ॥३-४९-७॥
यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः। मन्यामहे जितानाजौ परान्प्राप्तां च मेदिनीम् ॥३-४९-८॥
यस्य प्रभावान्न मया सभामध्ये धनुष्मतः। नीता लोकममुं सर्वे धार्तराष्ट्राः ससौबलाः ॥३-४९-९॥
ते वयं बाहुबलिनः क्रोधमुत्थितमात्मनः। सहामहे भवन्मूलं वासुदेवेन पालिताः ॥३-४९-१०॥
वयं हि सह कृष्णेन हत्वा कर्णमुखान्परान्। स्वबाहुविजितां कृत्स्नां प्रशासेम वसुन्धराम् ॥३-४९-११॥
भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः। अहीनपौरुषा राजन्बलिभिर्बलवत्तमाः ॥३-४९-१२॥
क्षात्रं धर्मं महाराज समवेक्षितुमर्हसि। न हि धर्मो महाराज क्षत्रियस्य वनाश्रयः ॥ राज्यमेव परं धर्मं क्षत्रियस्य विदुर्बुधाः ॥३-४९-१३॥
स क्षत्रधर्मविद्राजन्मा धर्म्यान्नीनशः पथः। प्राग्द्वादश समा राजन्धार्तराष्ट्रान्निहन्महि ॥३-४९-१४॥
निवर्त्य च वनात्पार्थमानाय्य च जनार्दनम्। व्यूढानीकान्महाराज जवेनैव महाहवे ॥ धार्तराष्ट्रानमुं लोकं गमयामि विशां पते ॥३-४९-१५॥
सर्वानहं हनिष्यामि धार्तराष्ट्रान्ससौबलान्। दुर्योधनं च कर्णं च यो वान्यः प्रतियोत्स्यते ॥३-४९-१६॥
मया प्रशमिते पश्चात्त्वमेष्यसि वनात्पुनः। एवं कृते न ते दोषो भविष्यति विशां पते ॥३-४९-१७॥
यज्ञैश्च विविधैस्तात कृतं पापमरिंदम। अवधूय महाराज गच्छेम स्वर्गमुत्तमम् ॥३-४९-१८॥
एवमेतद्भवेद्राजन्यदि राजा न बालिशः। अस्माकं दीर्घसूत्रः स्याद्भवान्धर्मपरायणः ॥३-४९-१९॥
निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः। न हि नैकृतिकं हत्वा निकृत्या पापमुच्यते ॥३-४९-२०॥
तथा भारत धर्मेषु धर्मज्ञैरिह दृश्यते। अहोरात्रं महाराज तुल्यं संवत्सरेण हि ॥३-४९-२१॥
तथैव वेदवचनं श्रूयते नित्यदा विभो। संवत्सरो महाराज पूर्णो भवति कृच्छ्रतः ॥३-४९-२२॥
यदि वेदाः प्रमाणं ते दिवसादूर्ध्वमच्युत। त्रयोदश समाः कालो ज्ञायतां परिनिष्ठितः ॥३-४९-२३॥
कालो दुर्योधनं हन्तुं सानुबन्धमरिंदम। एकाग्रां पृथिवीं सर्वां पुरा राजन्करोति सः ॥३-४९-२४॥
एवं ब्रुवाणं भीमं तु धर्मराजो युधिष्ठिरः। उवाच सान्त्वयन्राजा मूर्ध्न्युपाघ्राय पाण्डवम् ॥३-४९-२५॥
असंशयं महाबाहो हनिष्यसि सुयोधनम्। वर्षात्त्रयोदशादूर्ध्वं सह गाण्डीवधन्वना ॥३-४९-२६॥
यच्च मा भाषसे पार्थ प्राप्तः काल इति प्रभो। अनृतं नोत्सहे वक्तुं न ह्येतन्मयि विद्यते ॥३-४९-२७॥
अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम्। हन्ता त्वमसि दुर्धर्ष सानुबन्धं सुयोधनम् ॥३-४९-२८॥
एवं ब्रुवति भीमं तु धर्मराजे युधिष्ठिरे। आजगाम महाभागो बृहदश्वो महानृषिः ॥३-४९-२९॥
तमभिप्रेक्ष्य धर्मात्मा सम्प्राप्तं धर्मचारिणम्। शास्त्रवन्मधुपर्केण पूजयामास धर्मराट् ॥३-४९-३०॥
आश्वस्तं चैनमासीनमुपासीनो युधिष्ठिरः। अभिप्रेक्ष्य महाबाहुः कृपणं बह्वभाषत ॥३-४९-३१॥
अक्षद्यूतेन भगवन्धनं राज्यं च मे हृतम्। आहूय निकृतिप्रज्ञैः कितवैरक्षकोविदैः ॥३-४९-३२॥
अनक्षज्ञस्य हि सतो निकृत्या पापनिश्चयैः। भार्या च मे सभां नीता प्राणेभ्योऽपि गरीयसी ॥३-४९-३३॥
अस्ति राजा मया कश्चिदल्पभाग्यतरो भुवि। भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् ॥ न मत्तो दुःखिततरः पुमानस्तीति मे मतिः ॥३-४९-३४॥
बृहदश्व उवाच॥
यद्ब्रवीषि महाराज न मत्तो विद्यते क्वचित्। अल्पभाग्यतरः कश्चित्पुमानस्तीति पाण्डव ॥३-४९-३५॥
अत्र ते कथयिष्यामि यदि शुश्रूषसेऽनघ। यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ॥३-४९-३६॥
वैशम्पायन उवाच॥
अथैनमब्रवीद्राजा ब्रवीतु भगवानिति। इमामवस्थां सम्प्राप्तं श्रोतुमिच्छामि पार्थिवम् ॥३-४९-३७॥
बृहदश्व उवाच॥
शृणु राजन्नवहितः सह भ्रातृभिरच्युत। यस्त्वत्तो दुःखिततरो राजासीत्पृथिवीपते ॥३-४९-३८॥
निषधेषु महीपालो वीरसेन इति स्म ह। तस्य पुत्रोऽभवन्नाम्ना नलो धर्मार्थदर्शिवान् ॥३-४९-३९॥
स निकृत्या जितो राजा पुष्करेणेति नः श्रुतम्। वनवासमदुःखार्हो भार्यया न्यवसत्सह ॥३-४९-४०॥
न तस्याश्वो न च रथो न भ्राता न च बान्धवाः। वने निवसतो राजञ्शिष्यन्ते स्म कदाचन ॥३-४९-४१॥
भवान्हि संवृतो वीरैर्भ्रातृभिर्देवसंमितैः। ब्रह्मकल्पैर्द्विजाग्र्यैश्च तस्मान्नार्हसि शोचितुम् ॥३-४९-४२॥
युधिष्ठिर उवाच॥
विस्तरेणाहमिच्छामि नलस्य सुमहात्मनः। चरितं वदतां श्रेष्ठ तन्ममाख्यातुमर्हसि ॥३-४९-४३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.