03.051
बृहदश्व उवाच॥
दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत। तदा प्रभृति नस्वस्था नलं प्रति बभूव सा ॥०३-५१-१॥
ततश्चिन्तापरा दीना विवर्णवदना कृशा। बभूव दमयन्ती तु निःश्वासपरमा तदा ॥०३-५१-२॥
ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना। न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ॥०३-५१-३॥
न नक्तं न दिवा शेते हा हेति वदती मुहुः। तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः ॥०३-५१-४॥
ततो विदर्भपतये दमयन्त्याः सखीगणः। न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर ॥०३-५१-५॥
तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात्। चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति ॥०३-५१-६॥
स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम्। अपश्यदात्मनः कार्यं दमयन्त्याः स्वयंवरम् ॥०३-५१-७॥
स संनिपातयामास महीपालान्विशां पते। अनुभूयतामयं वीराः स्वयंवर इति प्रभो ॥०३-५१-८॥
श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम्। अभिजग्मुस्तदा भीमं राजानो भीमशासनात् ॥०३-५१-९॥
हस्त्यश्वरथघोषेण नादयन्तो वसुन्धराम्। विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलङ्कृतैः ॥०३-५१-१०॥
एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ। अटमानौ महात्मानाविन्द्रलोकमितो गतौ ॥०३-५१-११॥
नारदः पर्वतश्चैव महात्मानौ महाव्रतौ। देवराजस्य भवनं विविशाते सुपूजितौ ॥०३-५१-१२॥
तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम्। पप्रच्छानामयं चापि तयोः सर्वगतं विभुः ॥०३-५१-१३॥
नारद उवाच॥
आवयोः कुशलं देव सर्वत्रगतमीश्वर। लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो ॥०३-५१-१४॥
बृहदश्व उवाच॥
नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा। धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः ॥०३-५१-१५॥
शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः। अयं लोकोऽक्षयस्तेषां यथैव मम कामधुक् ॥०३-५१-१६॥
क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम्। आगच्छतो महीपालानतिथीन्दयितान्मम ॥०३-५१-१७॥
एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत। शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः ॥०३-५१-१८॥
विदर्भराजदुहिता दमयन्तीति विश्रुता। रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः ॥०३-५१-१९॥
तस्याः स्वयंवरः शक्र भविता नचिरादिव। तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥०३-५१-२०॥
तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः। काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन ॥०३-५१-२१॥
एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः। आजग्मुर्देवराजस्य समीपममरोत्तमाः ॥०३-५१-२२॥
ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत्। श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत ॥०३-५१-२३॥
ततः सर्वे महाराज सगणाः सहवाहनाः। विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः ॥०३-५१-२४॥
नलोऽपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम्। अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः ॥०३-५१-२५॥
अथ देवाः पथि नलं ददृशुर्भूतले स्थितम्। साक्षादिव स्थितं मूर्त्या मन्मथं रूपसम्पदा ॥०३-५१-२६॥
तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम्। तस्थुर्विगतसङ्कल्पा विस्मिता रूपसम्पदा ॥०३-५१-२७॥
ततोऽन्तरिक्षे विष्टभ्य विमानानि दिवौकसः। अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ॥०३-५१-२८॥
भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान्। अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ॥०३-५१-२९॥