Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.052
बृहदश्व उवाच॥
तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत। अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः ॥०३-५२-१॥
के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः। किं च तत्र मया कार्यं कथयध्वं यथातथम् ॥०३-५२-२॥
एवमुक्ते नैषधेन मघवान्प्रत्यभाषत। अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् ॥०३-५२-३॥
अहमिन्द्रोऽयमग्निश्च तथैवायमपाम्पतिः। शरीरान्तकरो नॄणां यमोऽयमपि पार्थिव ॥०३-५२-४॥
स वै त्वमागतानस्मान्दमयन्त्यै निवेदय। लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः ॥०३-५२-५॥
प्राप्तुमिच्छन्ति देवास्त्वां शक्रोऽग्निर्वरुणो यमः। तेषामन्यतमं देवं पतित्वे वरयस्व ह ॥०३-५२-६॥
एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत्। एकार्थसमवेतं मां न प्रेषयितुमर्हथ ॥०३-५२-७॥
देवा ऊचुः॥
करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध। न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् ॥०३-५२-८॥
बृहदश्व उवाच॥
एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत्। सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ॥०३-५२-९॥
प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत। जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ॥०३-५२-१०॥
ददर्श तत्र वैदर्भीं सखीगणसमावृताम्। देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ॥०३-५२-११॥
अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम्। आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ॥०३-५२-१२॥
तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम्। सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् ॥०३-५२-१३॥
ततस्ता नैषधं दृष्ट्वा सम्भ्रान्ताः परमाङ्गनाः। आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ॥०३-५२-१४॥
प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः। न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् ॥०३-५२-१५॥
अहो रूपमहो कान्तिरहो धैर्यं महात्मनः। कोऽयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति ॥०३-५२-१६॥
न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किञ्चन। तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः ॥०३-५२-१७॥
अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी। दमयन्ती नलं वीरमभ्यभाषत विस्मिता ॥०३-५२-१८॥
कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन। प्राप्तोऽस्यमरवद्वीर ज्ञातुमिच्छामि तेऽनघ ॥०३-५२-१९॥
कथमागमनं चेह कथं चासि न लक्षितः। सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः ॥०३-५२-२०॥
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह। नलं मां विद्धि कल्याणि देवदूतमिहागतम् ॥०३-५२-२१॥
देवास्त्वां प्राप्तुमिच्छन्ति शक्रोऽग्निर्वरुणो यमः। तेषामन्यतमं देवं पतिं वरय शोभने ॥०३-५२-२२॥
तेषामेव प्रभावेन प्रविष्टोऽहमलक्षितः। प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् ॥०३-५२-२३॥
एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः। एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि ॥०३-५२-२४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.