Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.056
बृहदश्व उवाच॥
एवं स समयं कृत्वा द्वापरेण कलिः सह। आजगाम ततस्तत्र यत्र राजा स नैषधः ॥०३-५६-१॥
स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम्। अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ॥०३-५६-२॥
कृत्वा मूत्रमुपस्पृश्य सन्ध्यामास्ते स्म नैषधः। अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥०३-५६-३॥
स समाविश्य तु नलं समीपं पुष्करस्य ह। गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥०३-५६-४॥
अक्षद्यूते नलं जेता भवान्हि सहितो मया। निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम् ॥०३-५६-५॥
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात्। कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात् ॥०३-५६-६॥
आसाद्य तु नलं वीरं पुष्करः परवीरहा। दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः ॥०३-५६-७॥
न चक्षमे ततो राजा समाह्वानं महामनाः। वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत ॥०३-५६-८॥
हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम्। आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥०३-५६-९॥
तमक्षमदसंमत्तं सुहृदां न तु कश्चन। निवारणेऽभवच्छक्तो दीव्यमानमचेतसम् ॥०३-५६-१०॥
ततः पौरजनः सर्वो मन्त्रिभिः सह भारत। राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ॥०३-५६-११॥
ततः सूत उपागम्य दमयन्त्यै न्यवेदयत्। एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् ॥०३-५६-१२॥
निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः। अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ॥०३-५६-१३॥
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता। उवाच नैषधं भैमी शोकोपहतचेतना ॥०३-५६-१४॥
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः। मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः ॥ तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ॥०३-५६-१५॥
तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम्। आविष्टः कलिना राजा नाभ्यभाषत किञ्चन ॥०३-५६-१६॥
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः। नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ॥०३-५६-१७॥
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च। युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत ॥०३-५६-१८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.