Mahabharata - Aranyaka Parva (महाभारत - आरण्यकपर्वम्)
03.057
बृहदश्व उवाच॥
दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम्। उन्मत्तवदनुन्मत्ता देवने गतचेतसम् ॥०३-५७-१॥
भयशोकसमाविष्टा राजन्भीमसुता ततः। चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति ॥०३-५७-२॥
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम्। नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् ॥०३-५७-३॥
बृहत्सेने व्रजामात्यानानाय्य नलशासनात्। आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु ॥०३-५७-४॥
ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम्। अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् ॥०३-५७-५॥
तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः। न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत ॥०३-५७-६॥
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा। दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ॥०३-५७-७॥
निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान्। नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह ॥०३-५७-८॥
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात्। सूतमानय कल्याणि महत्कार्यमुपस्थितम् ॥०३-५७-९॥
बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम्। वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः ॥०३-५७-१०॥
वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा। उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ॥०३-५७-११॥
जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि। तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि ॥०३-५७-१२॥
यथा यथा हि नृपतिः पुष्करेणेह जीयते। तथा तथास्य द्यूते वै रागो भूयोऽभिवर्धते ॥०३-५७-१३॥
यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः। तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ॥०३-५७-१४॥
सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च। नूनं मन्ये न शेषोऽस्ति नैषधस्य महात्मनः ॥०३-५७-१५॥
यत्र मे वचनं राजा नाभिनन्दति मोहितः। शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः ॥०३-५७-१६॥
न हि मे शुध्यते भावः कदाचिद्विनशेदिति ॥०३-५७-१६॥
नलस्य दयितानश्वान्योजयित्वा महाजवान्। इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि ॥०३-५७-१७॥
मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा। अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा ॥०३-५७-१८॥
दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः। न्यवेदयदशेषेण नलामात्येषु मुख्यशः ॥०३-५७-१९॥
तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते। ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना ॥०३-५७-२०॥
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम्। इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ॥०३-५७-२१॥
आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम्। अटमानस्ततोऽयोध्यां जगाम नगरीं तदा ॥०३-५७-२२॥
ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः। भृतिं चोपययौ तस्य सारथ्येन महीपते ॥०३-५७-२३॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.